OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 5, 2026

 वर्षाकालः सम्प्राप्तः। 


अनन्तपुरी> मण्सूण नामकः दक्षिण-पश्चिमीयवर्षाकालः गुरुवासरे केरलं सम्प्राप्तः। मासैकाभ्यन्तरे आभारतं वर्षाकालः प्राप्स्यतीति केन्द्र ऋतुविज्ञानीयविभागेन निगदितम्। 

  केरलमतिरिच्य माही, कर्णाटकं, तमिलनाटस्य केचित्प्रदेशाः इत्येतेषु स्थानेषु अपि वर्षाकालः प्राप्तः। द्वित्राणां दिनानामाभ्यन्तरे गोवा, महाराष्ट्रं, भारतस्य उत्तर-पूर्वीयराज्येषु च मण्सूणवार्षाः प्राप्स्यन्ति। वंगसमुद्रान्तरालस्य दक्षिण,दक्षिणपश्चिम,मध्य,  उत्तरपूर्वीयभागेषु वर्षा संप्राप्ता इति ऋतु विज्ञानीयविभागेन निगदितम्।

Thursday, June 4, 2026

 गुजराते बङ्गलादेशीयेभ्यः मार्गणम्। 

३०० निगृहीताः। 

अहम्मदाबादः> गुजराते अहम्मदाबादप्रदेशम् अनधिकारत्वेन अधिवसद्भ्यः बङ्गलादेशनागरिकेभ्यः आरक्षकाधिकारिभिः कृते अन्वेषणे - ओपरेषन् डेल्टा  नामके - उपत्रिशतं जनाः गृहीताः। एषु १६६ जनाः बङ्गलादेशनागरिकाः इति प्रत्यभिज्ञाताः। गतवर्षे चन्दोला तटाकपरिसरे कृते अन्वेषणे रक्षां प्राप्ताः जनाः नगरे विभिन्नस्थानेषु वासं कुर्वन्ति इति सूचना लब्धा आसीत्।

 पश्चिमेष्या पुनरपि संघर्षभरिता; रक्तरूषिता।

कुवैट् विमाननिलये इरानस्य ड्रोण् आक्रमणं- भारतीयो मृतः। 

कुवैट् नगरं> लबनन्देशे कृताक्रमणवशात्  शान्त्युपस्थापने सन्दिग्धे जाते आक्रमण-प्रत्याक्रमणैः पश्चिमेष्या पुनरपि संघर्षभरिता जाता। कुवैटे, बहरिने च वर्तमानान् यू एसस्य निलयान् प्रति इरानेन अग्निशस्त्राणि ड्रोण् आयुधानि च प्रयुक्तानि। प्रत्याक्रमणरीत्या होर्मिस् समुद्रसङ्कोचसमीपं वर्तमानम् इरानसेनायाः नियन्त्रणकेन्द्रं यू एसेन आक्रान्तम्। 

  कुवैट् अन्ताराष्ट्रविमाननिलयं विरुध्य इरानेन विधत्ते आक्रमणे एकः भारतीयः मृतः। मध्यप्रदेशीयः मन्सूर् अहम्मदः अस्ति मृतः। अनेन फेब्रुवरी २८ दिनाङ्के युद्धारम्भात् परं मृतानां भारतीयानां संख्या १० अभवत्। 

  ह्यस्तने आक्रमणे ६३ जनाः व्रणिताः। तेषु १२ जनाः भारतीयाः भवन्ति। तेषु त्रयः केरलीयाः।



 दिल्ल्यां वाससमुच्चये अग्निबाधा। 

अग्निबाधायाः दृश्यानि। 

२१ जनाः मृताः। 

मृतेषु ११ विदेशीयाः। 

नवदिल्ली> राष्ट्रराजधानीं प्रकम्पितायाम् महत्याम् अग्निबाधायां ह्यः २१ जनाः दग्धाः। बुधवासरे प्रभाते दक्षिणदिल्ल्यां मालव्यानगरस्थे 'फ्लरिस् स्टे बी आन्ड् बी' - Flourish Stay B&B- नामके वाससमुच्चये आसीत् महती अग्निबाधा। उपपञ्चाशत् जनाः आहताः सन्तः विभिन्नेषु आतुरालयेषु परिचर्यायां वर्तन्ते। 

  मृतेषु ११ विदेशीयाः अपि सन्ति। नैजीरिया, मोसांबिक्, लैबीरिया, बङ्गलादेशः इत्येतेभ्यः राष्ट्रेभ्यः प्राप्ताः इति सूच्यते।

 कर्णाटकम्।

डि के शिवकुमारः मुख्यमन्त्रिपदं प्राप्तवान्।

डि के शिवकुमारः शपथं कुर्वन् पदं स्वीकरोति। 

बङ्गलुरु> कर्णाटकराज्ये मुख्यमन्त्रिरूपेण कोण्ग्रस् नेता डि के शिवकुमारः प्रतिज्ञावाचनं कृत्वा कार्यभारम् प्राप्तवान्। लोकभवने 'ग्लास् हौस्' इत्यत्र राज्यपालः तावर चन्द गहलोट् वर्यः प्रतिज्ञावाचनं कारितवान्। शिवकुमारेण सह १२ मन्त्रिणः अपि शपथं कृत्वा  अधिकारं प्राप्तवन्तः। जि परमेश्वरः उपमुख्यमन्त्री भविष्यति। 

  सिद्धरामय्ये स्थानत्यागे कृतवति अस्ति डि के शिवकुमारस्य पदप्राप्तिः। कोण्ग्रस् नेतृवरिष्ठाः राहुल गान्धी, मल्लिकार्जुन खार्गे, के सि वेणुगोपालः, केरलस्य मुख्यमन्त्री वी डी सतीशः इतरे मन्त्रिणः इत्यादयः प्रतिज्ञावाचन कार्यक्रमे भागं कृतवन्तः।

 सि बी एस् ई कृत्यविलोपे परिहारप्रक्रमः। 

अध्यक्षः कार्यदर्शी च निष्कासितौ। शिक्षामन्त्री सुरक्षितः।

नवदिल्ली> सि बी एस् ई संस्थायाः द्वादशकक्ष्यापरीक्षायाः 'डिजिटल्' मूल्यनिर्णये जातं कृत्यविलोपमधिकृत्य आक्षेपविमर्शनेषु केन्द्रसर्वकारेण मुखसंरक्षणप्रक्रमाः आरब्धाः। सि बी एस् ई संस्थायाः अध्यक्षः राहुल सिंहः, कार्यदर्शी हिमांशु गुप्तः च तत्तत्स्थानाभ्यां निष्कासितौ। किन्तु मुख्योत्तरदायित्वे वर्तमानः विद्याभ्यासमन्त्री धर्मेन्द्र प्रधानः अस्पृश्यः वर्तते। 

  तथा च अस्मिन् वर्षे द्वादशकक्ष्याछात्राणां मूल्यनिर्णयाय Onscreen marking नामकं संविधानं निर्वोढुं ये  सन्धिं प्राप्तवन्तः तेषामुपरि अन्वेषणाय समितिः रूपीकृता। परीक्षाकृत्यविलोपे विद्याभ्यासमन्त्रिणः स्थानत्यागमालक्ष्य विपक्षीयदलानां प्रतिषेधः अपि प्रचलति।

Wednesday, June 3, 2026

 सर्वोच्चन्यायालये पञ्च न्यायाधिपाः अपि नियुक्ताः। 


नवदिल्ली> सर्वोच्चन्यायालये पञ्च न्यायाधिपाः अपि गतदिने नियुक्ताः। पञ्चाब-हरियानयोः मुख्यन्यायाधिपः शील नागुः, मुम्बई उच्चन्यायालयस्य मुख्यन्यायाधिपः श्री चन्द्रशेखरः, मध्यप्रदेशस्य मुख्यन्यायाधिपः सञ्जीव सत् देवः, जम्मु काश्मीरस्य मुख्यन्यायाधिपः अरुण पल्ली तथा वरिष्ठा नीतिज्ञा वी मोहना च नियुक्ताः। मोहनवर्यायाः नियोगेन महिलान्यायाधिपसंख्या द्वे जाते।

 यू एसेन सह चर्चा इरानेन समापिता। 

इस्रयेलस्य लबननं विरुध्य कृतम् आक्रमणं हेतुः।

टेहरानं> इरान-यू एस् इत्येतयोर्मध्ये समाकलिते युद्धविरामसन्धौ मुख्यव्यवस्थासु अन्यतमः  'लबनने युद्धविरामः' इत्ययं  इस्रयेलेन उल्लंघितः इत्यारोप्य यू एसेन सह शान्तिचर्चा इरानेन समापिता। इरानीय वार्ताप्रतिनिधिः 'तस्निम्' इत्यनया संस्थया निगदितं यत् मध्यस्थद्वारा प्रचाल्यमानानि सर्वाणि आशयविनिमयानि सम्भाषणानि च इरानस्य चर्चासंघेन समापितानि इति। 

  रविवासरे चरित्रप्रसिद्धं 'ब्ल्यू फोर्ट् कासिल्' [Blueu fort castle]नामकं दुर्गं सन्निगृह्य इस्रयेलः लबनने स्वाधिनिवेशं प्रबल्यकुरुत।लबननस्य राजधानीनगरस्य - बेय्रूत् - दक्षिणप्रदेशम् आक्रमितुं सैन्यं प्रति बञ्चमिन् नेतन्याहुः आदिशत् च। लबननं प्रति सैनिकप्रक्रमाय यू एसस्य सहयोगः लब्धः इति इस्रयेलमाध्यमैः वृत्तान्तीकृतम्।



Tuesday, June 2, 2026

 धावनाङ्कप्राप्तिवैभवे

वैभव सूर्यवंशिनः अङ्गीकारः - ऐ पी एल् ओरञ्चशिरोवेष्टनम्।

ओरञ्ज् शिरोवेष्टनं लब्धवान् वैभव सर्यवंशी इतरैः पुरस्कारैः सह। 

अहम्मदाबादः> ऐ पी एल् क्रिकट् महोत्सवे बहुषु महारथेषु सत्स्वपि धावनाङ्काSSखेटनस्य कृते दीयमानं ओरञ्चशिरोवेष्टनम् [Orange Cap] इत्यङ्गीकाराय कौमारक्रीडकः वैभव सूर्यवंशी अर्हः अभवत्। राजस्थान् रोयल्स् दलस्य नूतनः अयं 'महाप्रभः तारकः' [Super Star] १६ क्रीडाभ्यः ७७६ धावनाङ्कान् सम्पाद्य धावनाङ्कप्राप्तौ प्रथमस्थानम् अलभत। ओरञ्चशिरोवेष्टनाय स्पर्धितवन्तौ गुजरात टैटन्स् दलीयौ शुभमान गिलः (७३२), साय् सुदर्शनः (७२२) इत्येतौ अन्तिम स्पर्धायां न प्रशोभितवन्तौ। 

  सूर्यवंशी ऐ पी एल् क्रीडासु एकं शतकं, पञ्च अर्धशतकानि च प्राप्तवान्।त्रिषु क्रीडासु अर्धशतकानन्तरं नवत्युपरि धावनाङ्कान् प्राप्य शतं इत्येतत् प्राप्तप्रायःआसीत्। किंतु तदानीं सः अविचारितया रीत्या निष्कासितः अभवत्।

 आहत्य ७२ षट्काणि, ६३ चतुष्काणि च तस्य ताडनीतः जातानि। Orange Cap इत्येतत् अतिरिच्य super striker, emerging player, topest sixer , श्रेष्ठः क्रीडकः इत्येते पुरस्काराः अपि तेन लब्धाः।

 राष्ट्रिय परिवारस्वास्थ्य समीक्षणम्।

पोषकखाद्यन्यूनता वरिष्ठेषु वर्धते।

निर्णायकसूचनाः तमस्कृताः इति सर्वकारं प्रति विमर्शः च।

नवदिल्ली> केन्द्रसर्वकारस्य स्वास्थ्य-परिवारकल्याणमन्त्रालयस्य अधीशत्वे अन्ताराष्ट्रीयजनसंख्यानुशीलनकेन्द्रेण विधत्तस्य राष्ट्रिय परिवारस्वास्थ्य समीक्षणस्य विज्ञप्तिलेखः प्रकाशितः। शरीरभारसूचिका [Body Mass Index] सामान्येन आवश्यपरिमाणात् न्यूनीभूतानां महिलानां मानं नगरप्रदेशेषु वर्धते इति विज्ञप्तिलेखे सूच्यते। बालकेषु पोषकाहारन्यूनतां गणनीयरीत्या आकुञ्चयितुम् अशक्यत। किन्तु ग्रामक्षेत्रेषु पुरुषेषु तथा महिलासु च पोषकभोज्यन्यूनता वर्धते इति प्रत्यभिज्ञातम्। वृत्तिराहित्यम्, आर्थिकसन्दिग्धता च अस्य कारणमिति मन्यते। 

 महिलासु पुरुषेषु च अतिस्थूलत्वं [Obesity] नगरेषु ग्रामेषु च वर्धते। तमाखुं [tobacco] तस्योत्पन्नानि च उपयुज्यमानानां महिलानां मानं ग्रामेषु वर्धते। 

  किन्तु निर्णायकवृत्तान्तानि तमस्कृत्य एव राष्ट्रिय परिवारस्वास्थ्यसमीक्षणं विधत्तमिति विमर्शः अपि बहिःश्रूयते। राष्ट्रस्य रक्ताल्पताबाधितानां[Anemia] मानं, पाकेन्धनवातोपयोगः, स्वच्छताप्रगतिः इत्यादीनि सुप्रधानसूचकानि समीक्षणे न विद्यन्ते इत्येतत् विमर्शविधेयमभवत्।

 कर्णाटकम्। 

डि के शिवकुमारस्य प्रतिज्ञा बुधवासरे। 


बङ्गलुरु> कर्णाटके मुख्यमन्त्रिरूपेण कोण्ग्रस् दलस्य वरिष्ठनेता डि के शिवकुमारः जूण् तृतीयदिनाङ्के प्रतिज्ञां कृत्वा पदं प्राप्स्यति। राज्यपालः तावर् चन्द गहलोत् इत्यस्य पुरतः सायं ४. ०५ वादने प्रतिज्ञावाचनं करिष्यति। 

  स्थनत्यागं कुर्वतः सिद्धरामय्यस्य स्थाने अस्ति शिवकुमारस्य पदप्रवेशः। शनिवासरे विधानसौधस्य सभागारे सम्पन्ने कोण्ग्रसः सामाजिकसम्मेलने सः ऐककण्ठ्येन चितः। सिद्धरामय्यवर्यः तस्य नाम निरदिशत्।

Monday, June 1, 2026

 केरलम्। 

'ट्रोलिंग्' निरोधः नवमदिनाङ्कतः। 

अनन्तपुरी> केरलस्य तीरसमुद्रेषु जूण् ९ दिनाङ्कतः जूलाय् ३१ दिनाङ्कपर्यन्तं trolling नामकस्य यन्त्रवत्कृतनौकामुपयुज्य क्रियमाणस्य मत्स्यबन्धनस्य निरोधः विहितः। एषः कालखण्डः मत्स्यानां प्रमुखः प्रजननकालः इत्यतः मत्स्यसम्पदं संरक्षितुमुद्दिश्य एव ५२ दिनानां ट्रोलिंग् निरोधः विहितः। 

  तीरसमुद्रे परम्परागतधीवराणाम् उपरितलमत्स्यबन्धनाय निरोधो नास्ति। यन्त्रवत्कृतमत्स्यबन्धनयानानां कर्मकराः ये वृत्तिनष्टेन क्लेशमनुभूयमानाः, तेभ्यः अनुबन्धवृत्तिकरेभ्यश्च अस्मिन् कालखण्डे निश्शुल्कम् अन्नपरिमाणं [ration] अनुमोदयिष्यते।

 ऐ पि एल् किरीटं बङ्गलुरुणा प्राप्तम्।

किरीटप्राप्ति वेलायां RBC दलस्य आह्लादः। 

अहम्मदाबादः> 'Indian Premier League'- ऐ पि एल् - इति क्रिकट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां 'रोयल् चलञ्चेर्स् बङ्गलुरु' संज्ञया RBC , गुजरात् टैटन्स् संघं पञ्च द्वारकैः पराजित्य किरीटं सम्प्राप। अनुस्यूततया द्वितीयवारमेव  ऐ पि एल् किरीटं RBC दलेन सम्प्राप्तम्। अनेन चेन्नै सूपर् किङ्स्, मुम्बई इन्डियन्स् इत्येतयोः द्विवारं किरीटोपलब्धिः इति  सविशेषस्थानमपि लब्धम्। 

  उत्क्षेपनिर्णयं [Toss] उपलभ्य क्षेत्रपालनं [Fielding] चितवान् बङ्गुलुरु संघः प्रतिद्वन्दिनं गुजरातं २० क्षेपणचक्रेषु १५५ धावनाङ्कान् प्रति सङ्कोचयति स्म। प्रत्युत्तरक्रीडायां १८ क्षेपणचक्रेषु १६१ धावनाङ्कान् सम्पाद्य ऐ पि एल् चषकमपि सम्पादयामास। विराट कोह्ली विजयशिल्पी अभवत् [४५ कन्दुकैः ७५*]। प्राप्ताङ्कसूचिका - गुजरातः २० क्षेपणचक्रेषु १५५/८।बङ्गुलुरु १८ क्षेपणचक्रेषु १६१/५।

 ज्ञानमाधुर्येण सह प्रवेशनोत्सवः; उन्मेषभरिताः राज्यस्य विद्‍यालयाः; प्रथमकक्ष्यां प्रति लक्षशः शिशवः।

​   तिरुवनन्तपुरम्:> ग्रीष्मावकाशस्य दीर्घविरामात् परं राज्यस्य विद्‍यालयेषु अद्य नूतनाध्ययनवर्षस्य उत्साहपूर्णः प्रारम्भः अभवत्। वर्षाबिन्दुभिः वर्णाभछत्रैः सह लक्षशः छात्राः अद्य विद्‍यालयान् प्रविष्टवन्तः। अक्षराङ्गणं प्रति प्रथमवारं पदन्यासं कृतवन्तः शिशवः मधुरपक्वान्नैः वातगोलकैः (baloon) च अध्यापकैः ज्येष्ठछात्रैः च सादरं स्वागतीकृताः।

   ​तिरुवनन्तपुरस्थ-शासकीय-आदर्श-उच्चतर-विद्‍यालये आयोजितं राज्यस्तरीय-प्रवेशनोत्सवं मुख्यमन्त्री वि. डि. सतीशन् महोदयः उद्घाटितवान्। सार्वजनिक-शिक्षाविभगस्य मन्त्री एन्. षंसुद्दीन् महोदयः कार्यक्रमे अध्यक्षपदम् अलङ्कृतवान्। अन्ये मन्त्रिणः जनप्रतिनिधयश्च विभिन्नजनपदेषु प्रवृत्तानां प्रवेशनोत्सवानां नेतृत्वम् ऊढवन्तः।

 पाकिस्थानसम्बन्धिनः अष्ट भीकराः दिल्ल्यां निगृहीताः। 

बृहद्भीकराक्रमणाभियोजना भग्नायिता।

नवदिल्ली> पाकिस्थानस्य गूढान्वेषणसंस्था ऐ एस् ऐ [Inter Service Intelligence] इत्यनया सह संबन्धमानाः अष्ट भीकराः दिल्ली आरक्षकसेनायाः सविशेषसंघेन निगृहीताः। आयुधानि स्फोटकवस्तूनि च एभ्यः संगृहीतानि। 

 ऐ एस् ऐ इत्यस्य साहाय्येन मुम्बैस्थया अधोलोकश्रृङ्खलया सह संयोज्य दिल्ल्यां तन्त्रप्रमुखक्षेत्राणि सुरक्षाधिकारिणः च आक्रमितुम् अनेन संघेन परियोजना आसूत्रिता इति आरक्षणाधिकारिभिः प्रोक्तम्। 

 उत्तरप्रदेशः, झार्खण्डः, पञ्चाबः, महाराष्ट्रम् इत्येतानि राज्यनिवासिनः सप्त, एकः नेपालदेशीयः च निगृहीताः भीकराः। राष्ट्र गुप्तान्वेषणसंघस्य सूचनया अनुस्यूतनिरीक्षणस्य अन्वेषणस्य च अन्ते आसीत् एतेषां निग्रहणम्।

Sunday, May 31, 2026

 'ऐ पि एल्' अन्तिमस्पर्धा अद्य। 

आर् सि बी × गुजरात् टैटन्स्। 


अहम्मदाबादः> भारतस्य क्रिकट् वीरसंघं प्रत्यभिज्ञातुं  अहम्मदाबादे नरेन्द्रमोदी क्रीडाङ्कणे अद्य सायं  सप्तवादने अन्तिमस्पर्धा सम्पत्स्यते। 'रोयल् चलञ्चेर्स् बङ्गलुरु' [RCB], 'गुजरात् टैटन्स्' इत्येतौ संघौ परस्परं किरीटाय स्पर्धिष्येते। 

  वर्तमानीनवीरः RCB किरीटम् उपस्थापयितुं,  'गुजरात् टैटन्स्' तु तस्य द्वितीयवारं किरीटप्राप्तिं लक्ष्यीकृत्य च स्पर्धिष्यते।

Saturday, May 30, 2026

 वर्षाकालः अचिरेण। 

केरले तीव्रा वृष्टिः। 

अनन्तपुरी> केरले प्रायेण सर्वेषु जनपदेषु सप्त दिनानि यावत् वर्षाकालपूर्ववृष्टिः शक्तया रीत्या अनुवर्तते। सायंकालेषु सौदामिनीसहिता वृष्टि‌ः शक्ता अस्ति। जूण् मासस्य प्रथमवारे एव मण्सूण् वर्षाकालः केरलं प्राप्स्यतीति ऋतुविज्ञानीयविभागेन निगदितम्।

 विश्वचषकपादकन्दुकम्

मेस्सी अर्जन्टीनानायकः।


ब्यूणस् ऐरिस्> पादकन्दुकस्य विश्वकिरीटम् अलङ्कुर्वन्तं अर्जन्टीनासंघं इतिहासक्रीडकः लयणल् मेस्सी एव नेष्यति। गतदिने परिशीलकः लयणल् स्कलोनी २६ अङ्गोपेतं संघं प्रख्यापितवान्। पूर्वं खत्तरे किरीटप्राप्तौ भागम् ऊढवन्तः भूरिशः क्रीडकाः अस्मिन् संघे वर्तन्ते। 

  मेस्सिवर्यस्य षष्ठः विश्वचषकः एव अस्य वर्षस्य। २००६ तमे वर्षे आसीत्तस्य प्रथमा विश्वचषकक्रीडा। लक्ष्यकन्दुकरक्षकः (Goal keeper) एमिलियानो मार्टिनेस्, प्रतिरोधपंङ्क्तिक्रीडकः क्रिस्ट्यन् रोमेरो च संघं प्रति चितौ।