OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 15, 2026

 फिफा विश्वचषकः।

खत्तरस्य समस्थितिः। 

खत्तरस्य लक्ष्यकन्दुकप्राप्तौ दलस्य आह्वादः। 

जर्मनी-कुरसोवा प्रतिद्वन्द्वे लक्ष्यकन्दुकवर्षः - ७-१।

सान्टा क्लारा> प्रबलदलं स्विट्सर्लान्टं समस्थितिं गृहीत्वा [१-१] खत्तरदलं पादकन्दुकक्षेत्रे साभिमानम् अङ्कितम्। खत्तरेण आतिथ्यम् ऊढवति गते विश्वचषके अङ्करहितं सत् प्राथमिकचक्रादेव  बहिर्गतमासीत्। इदानीम् अमूल्यमेकमङ्कं स्वायत्तीकृतवत्। 

हूस्टणः > गतरात्रे सम्पन्नायां जर्मनी-कुरसोवा स्पर्धायां लक्ष्यकन्दुकवर्षः अभवत्। एकं विरुध्य सप्त लक्ष्यकन्दुकानां सम्पादनेन जर्मनी विजयीभूता।

  प्रथमे अर्धखण्डे प्रबलं जर्मनीदलं प्रति लघुतमराष्ट्रेषु अन्यतमा कुरसोवा १-१ इति समस्थितिम् अपालयत्। किन्तु द्वितीयार्धखण्डे जर्मनेः आधिपत्यं दृष्टम्। एकपक्षीयानि ६ लक्ष्यकन्दुकानि जातानि। विश्वचषकप्राप्तौ प्रतीक्षायां विद्यमानं जर्मनीदलं ७-१ क्रमेण विजितम्।