OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 15, 2026

 महिला टि-२० विश्वचषकः। 

पाकिस्थानं विरुध्य भारतस्य विजयः। 

भारत-पाकिस्थानयोः स्पर्थामध्ये दीप्ती शर्मा।

बर्मिङामः> वनिता टि-२० विश्वचषके किरीटाभिलाषेन इङ्गलण्टं प्राप्तस्य भारतस्य प्रथमस्पर्धायाम् अभिमानोज्वलविजयः। पाकिस्थानं ६४ धावनाङ्कैः पराजापयत।  

  प्राप्ताङ्कसूचिका - भारतं २० क्षेपणचक्रेषु १७०/६। पाकिस्थानं १७ क्षेपणचक्रेषु १०६ धावनाङ्कैः सर्वे बहिर्नीताः। 

  भारतस्य 'स्पिन्' क्रीडिका दीप्ती शर्मा इत्यस्याः कन्दुकक्षेपणवैभवमेव भारतस्य विजयम् अनायासमकरोत्। चतुर्षु क्षेपणचक्रेषु १० धावनाङ्कान् दत्वा पञ्च द्वारकान् सा पातयामास। महिला टि-२० मध्ये कस्याश्चन भारतीयायाः श्रेष्ठतरं प्रकटनमस्ति एतत्। कन्दुकताडने स्मृति मन्थाना ४४ कन्दुकेषु ६८ धावनाङ्कान् सम्पादितवती।