E100 वाहनेभ्यः केन्द्रप्रशासनस्य अनुज्ञा।
२२ लक्षं कोटि लाभः इति केन्द्रमन्त्री।
नवदिल्ली> वाहनेषु १००% 'एथनोल्' वस्तूपेतेन्धनम् उपयोक्तुं केन्द्रसर्वकारस्य अनुज्ञा लब्धा। अतः एथनोल् उपयोगेन चाल्यमानानां वाहनानां निर्माणाय विक्रयाय च सज्जता करणीया इति उपरितलयातायातमन्त्री नितिन गड्करी प्रोक्तवान्। समीपकाले ८५% एथनोल् उपेतेन्धनं प्रस्तुतमासीत्।
एथनोलस्य सार्वत्रिकोपयोगेन भारतस्य असंस्कृततैलेन्धनस्य आयातव्यये प्रतिवर्षं २२ लक्षं कोटि रूप्यकाणां लाभः भविष्यतीति गड्करिमहोदयेन निगदितम्। एथनोल् इन्धनस्य प्रभेदानां संभरण-मिश्रण-वितरणप्रक्रियायै सार्वजनीनतैलेन्धनसंस्थाभिः प्रक्रमाः आरब्धाः इति मन्त्रिणा उक्तम्।