हिंसाशीलानि न्यूनीकर्तुं विद्यालयेषु सङ्गीताध्ययनं अनिवार्यं करणीयम् - इळयराज:
मद्यशाला उत्कोचविषये सि बि ऐ अन्वेषणम् उचितमिति उच्चन्यायालयः।
अन्टालिय - तुर्क्की राज्ये अन्टालियायां जी.20 उच्चकोटी मेलने भागभाजं भवितुमागतः मोदि वर्य: ब्रिक्स् नेतृऋणां मध्ये कृतायां चर्चायां भाषमाणः आसीत्I पारीस् राष्ट्रे सञ्जात आतङ्क वादाक्रमणे प्रतिरोद्धुं सर्वे मिलित्वा भवेयुः सिना विमानदुर्घटनायां रूसेभ्यः साह्यः दादव्यः इति च उक्तवान् l आतङ्कवादान् विरुध्य पराजेतुं लोकराष्ट्रैः सम्भूय कर्तव्यानि करणीयानि। ब्रिक्स् राष्ट्राणि एतदर्थे प्रामुख्यं दादव्यम् इति च तेन स्मारितः।
संस्कृतभाषया सत्यवाक्यमुक्त्वा संस्कृतमातृसेवामकरोत्। अनन्तपुरी महानगरसभायाः चरित्रे इदंप्रथमतया एव संस्कृतवाक्यानि उद्घुष्टानि। संस्कृतश्रवणमात्रेण सश्रद्धं निश्शब्दं सभागृहम् अजित्वर्यस्य शपथस्यान्ते उच्चैर्हस्तघोषैः आदरं प्रदर्शितवत्। आदौ वरणाधिकारी तथा जनपदाधीशः बिजु प्रभाकरः सभायाः ज्येष्ठतमायै सामाजिकायै डो. विजयलक्ष्म्यै सत्यवाक्यम् उपादिशत्। तदनन्तरं विजयक्ष्मीवर्यायाः नेतृत्वे शिष्टाः९९ सामाजिकाः सत्यप्रतिज्ञां कृतवन्तः।
कोच्ची- मदिराविक्रयणलकुचविषये केरलवित्तमन्त्रिणं के एम् माणिं विरुद्ध्य
भ्रष्टाचारविरुद्धन्यायालयस्य आदेशः | महासख्यः -१७८ जे डि यु -७१ आर् जे डि -८० कोण्ग्रस् - २७ ------------०------------- |
एन् डि ए सख्यः -५८
भा ज पा -५३ एल् जे पि -०२ आर् एल् एस् पि -०२ एछ् ए एम् -०१ ---------------०------------ |
अन्ये ७ आहत्य स्थानानि -२७३ |
मलप्पुरम् - मलप्पुरे मतदानयन्त्राणां सम्भूय जातं दोषम् अधिकृत्य विशेष: सङ्घः अन्वेषणं करिष्यतीति गृहमन्त्री रमेश् चेन्नित्तला अवदत् । निर्वाचन कम्मीषणस्य सकाशात् लब्धे सति सपदि तदधिकृत्य विज्ञप्तिः भविष्यति । अयं विषय: गौरवयुक्तः इत्यपि तेन स्पष्टीकृतम् । जनपदे यन्त्रदोषकारणेन स्थगितनिर्वाचनेषु त्रयोदश पञ्चायतेषु सप्तविंशतिषु मतदानकेन्द्रेषु पुनर्निर्वाचनं कारणीयम् इति जनपदाधिकारिणा भास्करवर्येण राज्यनिर्वाचनकम्मीषन् प्रति सूचितम्। निर्वाचनस्थगनम् अधिकृत्य विविध राजनैतिकदलैः प्रतिषेधाः कृताः आसन् । यन्त्रदोषेण सप्तत्यधिकद्विशतेषु (२७०) केन्द्रेषु निर्वाचनं स्थगितमासीत् । यन्त्रेषु निर्यासादीनां स्थापनेन दोष: कारितः इति अवलोकितमासीत् । मुस्लीमलीग् शक्तिकेन्द्रेषु एव एतत् दृष्टम् . I
तृश्शूरे यन्त्रदोषेण स्थगितनिर्वाचनेषु अष्टस्थानेषु शुक्रवासरे पुनर्निर्वाचनं भविष्यति । कुन्नत्तङ्ङाडि , दक्षिण एरव् , पूतनक्करा , वेल्लार्कुलं, अन्नमनडा , कय्पमङ्गलं एङ्ङडियूर् , चेलक्करा , इत्यादि स्थानेषु एव पुनर्निर्वाचनं भविष्यति ।
नवदेहली- तिहार् कारागारतः २६ अनुवैद्यानां स्थानान्तरीकरणे देहली
सर्वकारः विवादे पतितः। कारागारे अपराधी कश्चन अपमाननं कर्तुम्
उद्युक्तवानिति वैद्यायाः परिदेवनानुसारं सुरक्षां परिगणय्य अनुवैद्याः(नर्स् ) अपि
स्थानान्तरिताः । किन्तु दक्षिण एष्यायां बृहत्तमे अस्मिन् कारागारे सुरक्षिताः न स्म: चेत् अन्यत्र
कुत्र भवेम इति तासां समस्या। तस्मादेव स्थानान्तरनिर्देश:
प्रतिनिवर्तनीयः इति ताः अभिप्रयन्ति। दीनदयाल इति आतुरालये एव ताः
स्थानान्तरिताः। देहली आरोग्यविभागस्य मानवविभवविकसन विभागस्य नेता एव
निर्देशं अदात्। स्थानान्तर निर्देश: प्रतिस्वीकरणीयः इति मुख्यमन्त्रिणे अरविन्द
केज्रिवालाय दत्ते पत्रे अनुवैद्याः उक्तवत्यः। यस्मिन् सन्दर्भे सर्वत्र वनिता शाक्तीकरणमधिकृत्य चर्चाः जायन्ते। तस्मिन्नेव एतादृशी प्रवृत्ति:
वनितानाम् आत्मविश्वासं न्यूनीकरोति इति ताः अवदन्। स्थानान्तरं समस्यायाः
परिहार: न आवश्यकसुरक्षादानमेव सर्वकारस्य दायित्वम् इत्येव ताः पृच्छिन्त।
कोच्ची - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं अद्य प्रचलति।तिरुवनन्तपुरं,कोल्लं , इटुक्की, कोषिक्कोट् , वयनाट्, कण्णूर् ,
कासरगोट् एतेषु जनपदेषु ३१,१६१ स्थानार्थिनः जनविधिम् इच्छन्ति।१.११कोटि
सम्मतिदातारः प्रथमपादे सन्ति।प्रातः सप्तवादनादारभ्य सायं
पञ्चवादनपर्यन्तं मतदानप्रक्रिया भविष्यति।
नवदिल्ली
- भारतानां ग्रामेषु डिजिटल्स्वाधीनतां संवर्धयितुं सामाजिकनेट्वर्क्
श्रृङ्खला फेस्बुक् सर्वकारस्य दूरवाणीसंस्था बि एस् एन् एल् च
परस्परसाहाय्यम् आविष्कुरुतः। १०० ग्रामेषु 'वै फै होट् ' स्थानानां
सज्जीकरणमेव लक्ष्यम्। अस्यै पद्धत्यै फेस् बुकः प्रतिसंवत्सरं पञ्च कोटि रूप्यकाणि दास्यति। बि एस् एन् एलस्य " बान्ड् विड्त् " क्रयणम् अनेन साध्यमस्ति। ज्ञानसाङ्केतिकाधारविकसनसेवनदातारः क्वाड् सेन् , ट्रैमाक्स् इत्यादय अपि अस्मिन् संरंभे सहकरणं प्रदास्यन्ति।