![]() |
| कविना गिरीष्पुलियूर् महोदयेन कृतम् मुख्यभाषणम् । 'संस्कृताभिमानिनः भाषणम्' |
![]() |
| जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करोति। |
१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनम् अकरोत्। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनम् अकरोत्। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि अभवन्।
६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति। नियमसभासामाजिकः मुल्लक्कर रत्नाकरः मुख्यभाषणं करिष्यति।
२०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।






