OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, December 1, 2019
संस्कृताभियानम्।
-प्रा. डॉ. विजयकुमारः मेनन्,
कविकुलगुरु कालिदास विश्वविद्यालयः
-प्रा. डॉ. विजयकुमारः मेनन्,
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि, येन भाषाशुद्धेः प्राधान्यम् अवगतं स्यात् तेन स्थिरः उत्साहः वोढव्यः, समयदाने आस्था प्रदर्शनीया वा। अन्यथा तु वाचि भाषाशुद्धेः प्राधान्यं दृश्येत, न तु कृतौ। अभाववैराग्य-श्मशानवैराग्यादयः चिरस्थायिनः यथा न भवन्ति तथैव भवति बुद्धिमात्रात् गृहीतं भाषाशुद्धिप्राधान्यम् अपि। 'अहं भाषाशुद्धिम् इच्छामि विशेषतः , किन्तु समयः एव न लभ्यते' इति वचनं सर्वत्र श्रूयते एव। अनास्थायाः अपरं मुखम् एतद्। मित्राणि, भाषाशुद्धिविषये कृतप्रयत्नस्य दर्शनात् , वर्गादिषु भागग्रहणात् , विदुषाम् उपदेशस्य श्रवणात् वा यः उत्साहः उद्बुद्धः भवेत्, सः क्षणोत्साहः न स्यात्।
जयतु संस्कृतम् जयतु भारतम् ।
नवदिल्ली > भारतस्य ५५तम ज्ञानपीठपुरस्काराय कैरल्याः 'इतिहासकविः' अक्कित्तम् अच्युतन् नम्पूतिरिः अर्ह अभवत्। ज्ञानपीठपुरस्कारं प्राप्यमाणः षष्ठः केरलीयसाहित्यकारो भवति अक्कित्तम्।
एकेनैवाश्रुकणेन सौरमण्डलं मृदुहासेन नित्यनिर्मलपौर्णमिं च क्रियमाणां मान्त्रिकतां केरलीयेभ्यः परिचिन्वमाणः 'इरुपतां नूट्टान्टिन्टे इतिहासम्' [विंशशतकस्य इतिहासः] अस्य रचनासु प्रसिद्धमस्ति। ५५ ग्रन्थाः तेन विरचिताः। तेषु ४५ संख्याकाः काव्यसमाहाराः । एतान् विना लधुकथाः, नाटकानि, लेखनानि, बालसाहित्यमित्यादयः अन्तर्भवन्ति।
Saturday, November 30, 2019
तमिळ् जनेभ्यः नीतिः करणीयः, श्रीलङ्कस्य राष्ट्रपतिं प्रति भारतस्य प्रधानमन्त्री।
नवदिल्ली> श्रीलङ्कदेशस्य तमिळ् जनेभ्यः नीतिः करणीया। श्रीलङ्कस्य राष्ट्रपतिं गोतपाय राजपाक्से वर्यं प्रति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अभ्यर्थितवान्। भारतसन्दर्शनाय समागतः आसीत् राजपाक्से। आतङ्कवादान् निवारयितुं भारतेन साहाय्यं दास्यति इति मोदिना उक्तम्। एतदर्थं पञ्चलक्षं डोलर् धनं ऋणं दास्यति। अपि च आर्थिकोन्नतये ४० कोटि डोलर् धनमपि ऋणं दास्यति इत्यपि संयुक्तवार्तामेलने मोदिना प्रोक्तम्।
Friday, November 29, 2019
वनिता न्यायाधिपा न्यायालये बन्धिता। आरक्षकाणां नियमप्रक्रमान् विरुद्ध्य न्यायवादिनः।
केरलम्-तिरुवनन्तपुरम्> न्यायालयस्य प्रकोष्ठे वनिता न्यायाधिपा बन्धिता। घटनानुबन्ध्य आरक्षकैः *'आलम्बहित'-नियमप्रक्रमः स्वीकृतः आसीत्। घटनेयं विरुद्ध्य तिरुवनन्तपुरं जनपदेषु न्यायवादिनः अद्य शुक्रवासरे न्यायालयं परित्यजन्ति।
Thursday, November 28, 2019
विद्यालयेषु जलपानाय विशेषसमयः, छात्रेषु नर्जलीकरण-निवारणाय।
राज्यस्तरीयः विद्यालयकलोत्सवः अद्य आरभते।
एष्याभूखण्डस्य बृहत्तमा कौमारमेला।
काञ्ञड्ङाट् > केरलराज्यस्य ६०तमः विद्यालयीयकलोत्सवः कासर्गोड् जनपदस्थे काञ्ञङ्ङाट् प्रदेशे अद्य समारभते। अद्य आरभ्य डिसंम्बर् प्रथमदिनाङ्कपर्यन्तं २८ वेदिकासु प्रचाल्यमाने कलोत्सवे १४ जनपदेभ्यः उपदशसहस्रं छात्रप्रतिभाः स्पर्धिष्यन्ते।
स्पर्धिष्यमानेभ्यः सर्वेभ्यः छात्रेभ्यः चषकान् वितरीतुं निर्णयः कृतः। जनपदस्तरीयासु प्रचलितासु स्पर्धासु प्रथमस्थानं प्राप्तवन्तः कलासाहित्यप्रतिभा एव राज्यस्तरीयस्पर्धायां भागं कुर्वन्ति।
Wednesday, November 27, 2019
भारतस्य कार्टोसाट् - ३, भ्रमणपथं प्रविष्टः।
बङ्गलूरु> भौम निरीक्षणाय निर्मितः अत्याधुनिकः कर्टोसाट्-३ इति उपग्रहः अद्य भ्रमणपथं प्रविष्टः। अद्य प्रातः ९.२८ वादने श्रीहरिकोट्टा सतीष् धवान् बहिराकाशनिलयात् आसीत् विक्षेपणम्। नवम्बर् मासस्य २५ दिनाङ्के विक्षेपणं निश्चितमासीत् । किन्तु काचन समस्यायाः परिहारम् उद्दिश्य विक्षेपणदिनाङ्कः परिवर्त्यनिश्चितः आसीत्। पि एस् एल् वि इत्यस्य ४९तमं विक्षेपणं भवति इदम्। अस्य उपग्रहस्य १६२५ किलोग्रां भारः अस्ति। बाह्याकाशे अयं पञ्च वर्षाणि यावत् प्रवर्तिष्यते। ९७.५°/ ५०९ इति कर्णस्थाने भ्रमणपथे अस्य स्थानं निर्णीतम्।
यूरोप् भूखण्डस्य चरिते बृहत्तमं चोरणम्, १बिल्यण् यूरो धनस्य आभरणानि नष्टानिI
जर्मनराष्ट्र-नगरस्य ट्रेस् डिन्न् इत्यस्थ चरित्रालयतः चोरैः अमूल्याभरणानि अपहृतानि। द्वितीयं लोकमहायुद्धानन्तरम् दुरापन्नं बृहत्तमं चोरणम् इति जर्मन् देशस्य पत्रिकाः आवेदयन्ति। ट्रेस् डिन् इत्यत्र विद्यमाने ग्रीन् वोल्ड् राजप्रासादात् भवति चोरणम्। यूरोप् भूखण्डस्थ चरित्रप्राधान्ययुक्तवस्तुनः तत्र संरक्षिताः आसन्l (प्रासादं अधुना म्यूसियं इति व्यवहरन्ति)। १८ तमशतकस्य वज्राभरणानि एव अपहृतानि। सोमवासरे उषसि एव घटना आपन्ना। चोरितानाम् आभरणानां मूल्यं 78,85,24,47,600 रूप्यकाणि एव। चोराणां दृश्यं छायाग्राह्या संग्रहीतम्।Tuesday, November 26, 2019
महाराष्ट्रराज्ये श्वः विश्वास मतदानम्। भा ज दलाय ताडनम्।
नवदिल्ली> महाराष्ट्रराज्ये मुख्यमन्त्रि फड्नाविसः बुधवासरे सायं ५ वादनतः पूर्वं भूरिबलम् अस्ति इति प्रत्यक्षप्रमणं करणीयम् इति सर्वोच्चन्यायालयेन आदिष्टम्I राज्यपालेन प्रदत्तं कालदैर्घ्यं न्यूनीकृत्य भवति न्यायालयस्य आदेशःI रहस्य मतदानं मास्तु सुतार्यतया एव निर्वाचनं करणीयम् इत्यपि न्यायालयेन आदिष्टम्। न्यायाधीशस्य एन् . वि रमणस्य आध्यक्ष्ये विद्यमानेन त्रयङ्गपीठेन एव अदेशः प्रदतः।
ऐ. एस्. भीकराः शरणागताः
काबूल्> पूर्व नङ्गहार-प्रवि श्यायां शरणागतेषु शतशेषु इस्लामिकस्टेट् भीकरेषु दशभारतीयाः अपि अन्तर्भवति इति अफ्गानिस्थानस्य वार्ता पत्रिका अफ्गान् टैंस् आवेद्यते। एते काबूलं प्रति नीताः इत्यस्ति इदानीन्तन विवरणम्।
विगते सप्ताहे ऐ एस् भीकराः तेषां कुटुम्बाः च आहत्य उपसहस्रं जनाः च अफ्गानस्य सैनिकानां पुरतः शरणागताः आसन्। एतेषु भूरि पाकिस्थाननागरिकाः इत्यस्ति विवरणम्।
नवम्बर् मासस्य १२ दिनाङ्के ऐ एस् केन्द्रान् प्रति कृते सैनिकप्रक्रमे ९३ सायुधभीकराः शरणागताः आसन् इति अफ्गानस्य सेनया स्पष्टीकृतम्।
Monday, November 25, 2019
संस्कृतपण्डितः महागुरुः अच्युतपिषारटिवर्यः दिवङ्गतः।
पट्टाम्बि> संस्कृत-पण्डितः के पि अच्युतपिषारटिवर्यः दिवङ्गतः। अद्य उषसि आसीत् तस्य निधनः। महोदयस १०९ वयः आसीत्। वार्धक्य सहजरोगेण सः पीडितः आसीत्। अद्य ११ वादने तस्य भौतिकं शरीरम् आतुरालयतः गृहम् आनयिष्यति।
अस्य पिता पुतुश्शेरि ब्राह्मणगृहजस्य पशुपतिवर्यः माता कोटिक्कुन्नत्त् तृक्कोविल् पिषारत्त् नारायणिक्कु्ट्टि पिषारस्यार् वर्या च भवतः। तथा एष धन्यात्मा पट्टाम्बि पुन्नश्शेरि नीलकण्ठशर्मवर्यस्य मुखतः संस्कृताध्यनमकरोत्I
१०३९ तमे , वर्षे अध्यापकपदे न्ययुङ्क्तोऽभवत्। पण्डितरत्नं, देवीप्रसादम् इत्यादिभिः बहुभिः पुरस्कारैः पण्डितोऽयं समादृतः अभवत्। जीवितान्त्यं यावत् कर्मणि निरतस्य अस्य वियोगः न केवलं तत् समाजस्य किन्तु सर्वेषामपि सज्जनकुलानां महान् नष्ट एव।
संस्कृतप्रचारणं दिनचर्यारूपेण स्वीकृतवान् पण्डितः।
षण्मासेभ्यः पूर्वं यावत् कोटिक्कुन्नत्तु पिषारद्भवने 'पिषारटि वर्यं' परितः शिष्यजनानां महान् सम्मर्दः आसीत्। लालित्यपूर्णेन मन्दस्मितेन संस्कृतभाषानुबन्धाः बहवः सन्देहाः विविधस्तराणां जनानां पुरतः छिन्नाः अभवन्। संस्कृत भाषाकुतुकिनः, छात्राः, अध्यापकाः, गवेषकाः, भागवतसप्ताहेषु आचार्यस्थानं वहन्तः ये के अपि सन्देहनिवारणार्थम् आगच्छन्तः रिक्तहस्तेन प्रतिगतवन्तः नासन्।
पुन्नश्शेरि नीलकण्ठशर्मणः शिष्योत्तमेषु अन्तिमं दलमस्ति अच्युतप्पिषारटिः।(वार्तायाः आकलनम् - नववाणी सम्प्रतिवार्ताश्च।)
क्रिस्तुवर्षात् पुरातना प्रतिमाः 'मम्मि' च लब्धाः
![]() |
| (चित्रम् - ए. फ्. पि) |
केय्रोस्थ 'गिस पिरमिड्' इत्यस्य समीपस्थे स्क्वार नाम शिलाप्रकोष्टात् एव 'मम्मि' इत्याखस्य मृतशरीरस्य संरक्षित रूपं लब्धम्। बिडालः, नक्रः, सिंहः, च भवति प्रतिलब्ध शरीरेषु विद्यन्ते। द्वयोः नकुलयोः संरक्षितशरीरौ अपि प्रतिलब्धेषु स्तः।
![]() |
| (बिडालस्य संरक्षितशरीरम्, चित्रम् - रोयिडेर्स् ) |
पुरातन ईजिप्तजनसमूहेषु बिडालपूजनमपि आसीत् इति अनुसन्धातृभिः अनुमन्यते।
ईडन् मध्ये विजयं प्राप्य भारतसंघः।
ईडन् गार्डन्स् > भारतसंघस्य प्रथमपिङ्क्बाल् स्पर्धायां बङ्गलादेशदलं ऐकन इन्निङ्सेन ४६ धावनाङ्कैः च विजयं प्राप्य भारतसंघः विश्वटेस्ट् क्रिकेट् चक्रे प्रथमस्थाने विराजते। बङ्गलादेशदलं प्रति द्वितीयस्पर्धायामपि विजयं प्राप्य टेस्ट्परम्परायामपि भारतं विजेता (२-०) अभवत्। अस्यां क्रीडायामपि कन्दुकक्षेपकानां प्रकटनमेव सहायकमभवत्। भारताय द्वितीये इन्निङ्स् मध्ये उमेष् यादवः ५ इषान्त् शर्मा ४ च क्रीडकान् निष्कासयताम्। स्पर्धायाम् आहत्य इषान्त् शर्मा ९ उमेष् यादवः ८ च क्रीडकान् निष्कासयताम्। टेस्ट्परम्परायाः क्रीडकत्वेन इषान्त् शर्मा चितः वर्तते। शतकं प्राप्तस्य नायकस्य कोह्लेः प्रकटनमपि श्रद्धेयमासीत्। टेस्ट् परम्परासु भारतसंघेन अनुस्यूततया प्राप्तः पञ्चमः विजयः भवति अयम्।
Sunday, November 24, 2019
माहाराष्ट्रे सर्वकारः आयोजितः। शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं प्रतिI
नवदिल्ली> महाराष्ट्रस्य सर्वकार रूपीकरणं विरुद्ध्य शिवसेना, एन् सि पि, कोण्ग्रस् दलानि सर्वोच्चन्यायालयं गमिष्यन्तिI झटित्येव नियसभाम् आयोज्य विश्वासमतदानं करणीयमिति संयुक्तयाचिकया न्यायालयं प्रति प्रार्थिष्यन्ते। याचिका झटित्येव आवेक्षणीया इत्यस्ति तेषाम् अर्थना। महाराष्ट्रस्य राज्यपालस्य त्वरितप्रक्रमान् विरुद्ध्य अस्ति याचिका। भूरिपक्षालम्बः अस्ति वा इति अदृष्वा एवफट्नाविसं शपथग्रहणाय अवसरः दत्तः इति भवति विपक्षीयानां विमर्शः। न्यायवादी कपिल सिबलः मनु अभिषेक् सिङ्वि च कोण्ग्रस् दलस्य कृते न्यायपीठस्य पुरतः उपस्थितौ भविष्यतः॥
Saturday, November 23, 2019
ग्रहीतान् भारत-नागरिकान् चीनस्य साहाय्येन आतङ्कवादिनां पट्टिकायां योजयितुं पाकिस्थानेन प्रयतते।
सम्प्रति पाकिस्थानेन गृहीताः भारत-नागरिकाः बलूचिस्थाने पेषवारे च आक्रमणानि कृतानि इति उक्त्वा यू एन् मध्ये याचिका दत्ता अस्ति। अफ्गानिस्थाने विद्यमानायाः उद्योगसंस्थायाः परियोजनायां कर्मकाररूपेण समागतान् भारतनागरिकान् गृहीत्वा ईदृशरीत्या भीकरत्वम् अरोपणाय यत्नः करोति ।
सम्प्रति पाकिस्थानेन अफ्गानिस्थानतः गृहीतानां कृते दूतावासस्य साहाय्याय सन्दर्भः करणीयः इति भारतेन अभ्यर्थितम्।
Friday, November 22, 2019
श्वासकोशः स्प्रोञ्चः इव, ३० संवसराणि यावत् धूमपानं कृतवतः श्वासकोशस्य चित्रं प्रसार्य भिषग्वराः।
Thursday, November 21, 2019
केरलराज्यस्तरीय-वरिष्ठनागरिकाणां क्रीडास्पर्धा २३ दिनाङ्के।
कोच्ची> ६० वयः उपरिष्टात् वरिष्ठानां नागरिकाणां कायिकस्पर्धा नवंबर् मासस्य त्रयोविंशति दिनाङ्के प्रचालयिष्यति। महाराजास् कलाशालायाः क्रीडाङ्कणे भवति इयं स्पर्धा। स्पर्धार्थिनः अस्मिन् दिने प्रातः ७.३० वादने वयःप्रकाश्यमानेन प्रमाणेन सह आगन्तव्याः इति आयोजकाः वदन्ति।
जिल्ला नियमसेवा आयोगः, एज् फ्रण्ट्लि एरणाकुलम्, केरल स्टेट् स्पोर्स् कौण्सिल् , इन्ट्यन् मेडिक्कल् असोसिएषन्, केरल सर्वकारीय स्वस्थ्यविभागः अन्ये सेवादलानि च संयुक्ततया प्रचालयन्ति अमुं कार्यक्रमम्।
स्वस्थे शरीरे एव स्वस्थं मनः स्थास्यति। अतः जीवने उभयस्यापि प्राधान्यं विद्यते। तदर्थं क्रियमाणः प्रयत्नः भवति अयं कार्यक्रमः इति आयोजकाः वदन्ति। 9074241011, 9496712249 इति भवतः आयोजकानां दूरभाषा सङ्ख्ये।
Wednesday, November 20, 2019
शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक रेखाचित्रम् सज्जम् अभवत्। लोहसान्निध्यम् अदृष्टम्।
वाषिङ्टण्> शनिग्रहस्य उपग्रहस्य टैटानस्य ग्रहवैज्ञानिक-प्रतल-रेखाचित्रम् सज्जम् इति अमेरिकस्य अरिसोण विश्वविद्यालयेन उच्यते। शनिग्रहस्य चन्द्रः इति आहूतवतः टैटानस्य प्रतलेषु विविधाकारेषु पर्वताः उपपर्वताः, तटाकाः, समतलाः च द्रष्टुं शक्यते। बाह्याकाशानुसन्धाने नूतनमिदं ज्ञानम् अरिसोण, पासडोणा परीक्षणशाला नासा च मिलित्वा पत्रमाध्यमकाराणां पुरतः प्रकाशितवन्तः।
विविधलोहानां सान्निध्यम् अस्ति ग्रहे भूमिं विहाय द्रावकाणां सान्निध्यं टैटाने एव भवति। अपग्रहस्य विविधभागेषु विविधोष्णाः विविधगुरुत्वबलानि च वर्तन्ते इति वैज्ञानिकानां मतम्।
उत्तरकोरियेन कृतम् अणुपरीक्षणं हिरोषिमा विस्फोटतः १७ गुणितं शक्तम् - ऐ एस् अर् ओ।
२४५ तः २७१ टण् मितं विस्फोटकवस्तूनि परीक्षणाय उपयुक्तातानि। द्वितीये लोकमहायुद्धे १९४५ तमे हिरोषिमा विस्फोटघटनायां १५ टण् विस्फोटकम् उपयुक्तम् आसीत्। विस्फोटनस्य तीव्रतामापनाय उपग्रह-चित्राणि विवरणानि च अध्ययनाय उपयुक्तानि।
Tuesday, November 19, 2019
भारत-नेपालयोः सीमनि भूकम्पः।
नवदिल्ली> भारत-नेपाल-राष्ट्रयोः सीमनि लघु भूकम्पः अभवत्। स्पन्दमापिन्यां ५.३ इति चलनम् अङ्कितम्। नव दिल्लां तथा उत्तरप्रदेशे उत्तरघण्डे च (अद्य मङ्गलवासरे) सायं भूकम्पनम् अनुभूतम्। मनुष्याणां जीवनाशः वा वस्तुनां नाशः वा न आवेदितः। भारत-नेपालयोः सीमनि विद्यमानः वनप्रदेशः भवति भूकम्पस्य प्रभव केन्द्रम्I २०१५ तमे नेपाले भूकम्पेन ९००० जनाः मृत्युमुपगताः आसन्|
Monday, November 18, 2019
यूनाम् एशियामहाद्वीपीया मुष्टामुष्टिस्पर्धा
-पुरुषोत्तमशर्मा
नवदेहली> भारतेन यूनाम् एशियामहाद्वीपीय-मुष्टामुष्टिस्पर्धामालिकायां पञ्च स्वर्णपदकानि मिलित्वा द्वादशपदकानि आहत्य प्राप्तानि।। मङ्गोलियादेशे महिलावर्गे नाओरिम-चानू, विङ्का, सनामाचा-चानू, पूनम:, सुषमा च स्वर्णपदकानि विजिवत्य:। पुरुषवर्गे सेलाय-सायेनेन अथ च अङ्कित-नरवालेन रजतपदके विजिते। अरुणधतिचौधरी, कोमलप्रीत-कौर:, जास्मिन:, सतेन्दर-सिंह: अमनश्च कांस्यपदक-विजेतारो वर्तन्ते।
संस्कृताभियानम्
नमांसि!संस्कृतप्रचाराय बहुविधाः कार्यक्रमाः क्रियन्ते। बह्व्यः संस्थाः कार्यं कुर्वन्ति च। विविधकक्ष्याः, सभाः, सङ्गोष्ठ्यः, सम्मेलनानि, पुस्तकप्रकाशनम्, पाण्डुलिपिग्रन्थसम्पादनम्, स्पर्धाः, प्रदर्शिन्यः, शोधकार्याणि इत्येतानि सर्वाणि उत्तमानि एव। अवश्यं करणीयानि एव। तैः संस्कृतस्य अधोगतिः अवरुद्धा भवेत्, वृद्धिः अपि भवति भागशः। यथास्थितिरक्षणं वा भवेत्। परन्तु यावत् विद्यालय-महाविद्यालय-विश्वविद्यालयेषु जायमानासु संस्कृतकक्ष्यासु संस्कृतभाषा न आगच्छेत् तावत् उपरितनानां सर्वेषां कार्याणां स्वल्पः परिमितः एव परिणामः भवेत्। मित्राणि, संस्कृतकक्ष्यासु संस्कृतम् आनेतुं प्रयत्नं कुर्मः।
जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, कविकुलगुरु कालिदास-विश्वविद्यालयःI महाराष्ट्रम्।
समर्थनगरनिर्माणम् - उन्नावदेशे कृषकारक्षकयोः मिथःप्रहरः।
लख्नौ> उत्तरप्रदेशस्य उन्नावे आयोक्ष्यमाणायाः समर्थनगर-परियोजनायाः कृते स्वीकृतभूसंबन्ध तर्कः कृषकारक्षकयोः मिथःप्रहरस्य कारणम् अभवत्। कृषकाणां पार्श्वतः आरक्षकान् प्रति पाषाणक्षेपः अजायत। तदा आरक्षकाः दण्डप्रक्रमः अकुर्वन्I नगर निर्माणाय आनीतानि उपकरणानि प्रतिषिद्धाः अग्निसात् कृतानि। 'ट्रान्स् गङ्गा' इति परियोजनायाः प्रदेशे एव घटना अजायत्। भूनष्टस्य परिहारः इतःपर्यन्तं न लब्धः इति प्रतिषेधिनः वदन्ति। किन्तु परिहारधनं सर्वं दत्तमस्ति इति अधिकारिणः वदन्ति। समर्थनगरस्य निर्माणं रोद्धुं केचन प्रयत्नं कुर्वन्ति इत्यपि परियोजनायाः नेतृजनैः उक्तम्।
Sunday, November 17, 2019
गोतबाय राजपक्सः श्रीलङ्कस्य नूतनाध्यक्षत्वेन चितः।
कोलम्बो > श्रीलङ्कदेशस्य निर्वाचने नूतनाध्यक्षत्वेन श्रीलङ्क एस् एल् पि पि दलस्य स्थानार्थी गोतबाय राजपक्सः चितः भवति। युणैटड् नाषणल् दलस्य सजित्प्रेमदासः आसीत् मुख्यः प्रतियोगी। श्रीलङ्कस्य भूतपूर्वाध्यक्षस्य महीन्द्रराजपक्सस्य सोदरः भवति गोतबाय राजपक्सः। ५१.२% जनसम्मतिः राजपक्सेन प्राप्ता इति सूचना अस्ति। प्रतियोगिना सजित् प्रेमदासेन ४२% सम्मतिः प्राप्ता। महीन्द्रराजपक्सस्य शासनकाले आभ्यन्तरकार्यदर्शी आसीत् गोतबायराजपक्सः
Subscribe to:
Posts (Atom)




















