भूमेः तापः नियन्त्रितः भविष्यति। सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता।
भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान् रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)OUR YouTube Channel 1. SampratiVartah |
marquee
Thursday, April 1, 2021
Wednesday, March 31, 2021
म्यान्मरसेनां विरुध्य लोकराष्ट्राणि। नरहत्या समाप्यतामिति निदेशः।
याङ्कूण्> ये प्रतिषिध्यन्ति तान् निष्करुणं निहननं कुर्वन्तं म्यान्मरराष्ट्रस्य सैनिकशासनं विरुध्य लोकराष्ट्राणां तीव्रः प्रतिषेधः। सायुधसेनादिने शनिवासरे बालकानभिव्याप्य ११४ जनाः सैन्येन निहताः। इतःपर्यन्तं चतुश्शताधिकाः जनाः निहताः सन्ति।
गतदिने सैन्येन हतानामन्त्येष्टिकर्मणि अपि भुषुण्डिप्रयोगः कृतः। सैन्यस्य नरमृगयामपलपन्तः जापान पदक्षिणकोरिय-ब्रिट्टन-अमेरिक्क-आस्ट्रेलिय-कानड-डेन्मार्क- जर्मनि-ग्रीस्-नेतर्लान्ट्-न्यूसिलान्ट् इत्येतेषां राष्ट्राणां रक्षामन्त्रिण संयुक्तप्रस्तावं कृतवन्तः।
Monday, March 29, 2021
भारत-इंग्लैण्डयोः एकदिवसीया क्रिकेटशृङ्खला भारतेन विजिता
पुणे नगरस्थे महाराष्ट्र-क्रिकेटसङ्घ-क्रीडाङ्गणे रविवारे भारत-इंग्लैण्डदलयोः मध्ये क्रीडिते तृतीयान्तिमायाम् एकदिवसीयायां स्पर्धायां भारतेन इंग्लैण्डवृन्दं पराजितम्। रोमाञ्चके द्वन्द्वे भारतेन सप्त धावनाङ्कैः विजयश्रीः अधिगता। अनेन सहैव भारतेन एतदिवसीया क्रिकेटशृङ्खला द्वे एकम् स्पर्धान्तरालेन स्वायत्तीकृता। इतः पूर्वं दलद्वयम् अन्तरा क्रीडिता विंशतिः प्रतिविंशतिः क्षेपचक्रीया शृङ्खला अथ च क्रिकेटनिकषशृङ्खला अपि भारतेनैव विजिते।
पणकं विजित्य इंग्लैण्डदलेन कन्दुकक्षपणं स्वीकृतम्। प्रथमं भारतेन नवविंशत्युत्तरत्रिशतं धावनाङ्कानां विजयलक्ष्यं स्थापितम्। लक्ष्यमनुसरता इंग्लैण्डदलेन निर्धारितेषु पञ्चाशत् क्षेपचक्रेषु नवक्रीडकाणां हानौ द्वाविंशत्युत्तरत्रिशतं धावनाङ्काः एव समर्जिताः। स्पर्धायां भव्यप्रदर्शनाय सैम-कुर्रन इत्यसौ स्पर्धापुरुषः चितः। शृङ्खलायां सर्वश्रेष्ठ-प्रदर्शनाय च जॉनी बेयरस्टो इत्यसौ श्रेष्ठक्रीडकत्वेन प्रचितः।
Sunday, March 28, 2021
यू ट्यूब् वाहीन्या करः दातव्यः।
सर्वकार्येषु यू ट्यूब् वाहिनीनां आरम्भः कुर्वन्तः सन्ति सर्वे। आबालवृद्धं जनाः यू ट्यूब् द्वारा धनसम्पादनाय प्रयत्नं कुर्वन्तः सन्ति। किन्तु विभवोत्पादकानां हस्ततः शुल्कं (करः) स्वीकर्तुं गूगिलेन निश्चितः अस्ति। १४% भवति कररूपेण दातव्यः अस्ति। अमेरिकस्य नियमानुसारं राष्ट्रात् बहिः विद्यमानानाम् उत्पादकानां पार्श्वतः एव शुल्कः स्वीकरिष्यति। विषयमिदम् अणुपैषद्वारा उत्पादकाः संवेदिताः। मार्च् ३१ तः पूर्वं Adsense सुविध्या गूगिलः न्यवेदनीयः नो चेत् करः व्यवस्था २४% इति भविष्यति।
महाराष्ट्रे अद्य रात्रौ आरभ्य तीव्रनियन्त्रणं विहितम्।
मुम्बै> कोविड् व्यापनस्य अधिक्यस्य कारणेन महाराष्ट्र राज्ये अद्य (रविवासरः) आरभ्य रात्रिसमय तीव्रनियन्त्रणं भविष्यति इति मुख्यमन्त्रिणः कार्यलयात् ज्ञापितम्। रात्रि ८ वादनात् प्रभाते ७ वादनपर्यन्तं विपणिः मा भवतु इति आदेशः प्रसारितः। एप्रिल् १५ दिनङ्कतः विवाहादिकं मास्तु इत्यपि आदिष्टः।Saturday, March 27, 2021
चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। सीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः गृहीताः।
ताय्पेय्> चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। समुद्रसीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः तय्वानेन गृहीताः। तय्वानस्य सुरक्षासेनया एव मत्स्यबन्धने निरताः गृहीताः। १३ धीवराः अपि बन्धनस्थाः सन्ति। चीनः बृहत्तमान् यन्त्रनौकान् उपयुज्य सीमानम् उल्लङ्ख्य मत्स्यबन्धनं कुर्वन् आसीत्। अन्ताराष्ट्रनियमान् उल्लङ्ख्य भवति चीनस्य प्रवृत्तिः इति तय्वानेन संसूचितः। तथापि प्रतिनिवर्तितुं चीनः न उद्युक्तः। अत एव रोधनप्रक्रमाय ताय्वानः निर्बधितः अभवत्।
Friday, March 26, 2021
निसार्' सख्यं प्रकृतिविभवसंरक्षणाय साहायकम् इति अमेरिकः।
अमेरिक्कस्य राज्यविभागेन उक्तं यत् निसार् (NASA+ISRO) सख्यं प्रकृतिविभवसंरक्षणाय साहायकम् इति। विश्वतले भूमेः विभवानि संद्रष्टुं प्रकृतिदुरन्तसूचना यथाकालं प्रत्यभिज्ञातुं क्षमतायुक्तम् उपग्रहनिर्माणानि विक्षेपः च लक्ष्यःI अनेन बाह्याकाशानुसन्धानरङ्गेषु उन्नतिः भविष्यति। एतदर्थम् आधुनिकोपकरणानि भारतेन अमेरिकं प्रति प्रेषितानि सन्ति। योजनेयं 'निसार्' इति नाम्नि सूत्रवत् ज्ञायते। भूमेः समग्रतया निरीक्षणमेव अनेन प्रकारेण भविष्यति।
Thursday, March 25, 2021
भारतराट्रे कोविड् विषाणोः नूतनः ७७१ प्रकारभेदाः दृष्टाः।
नवदिल्ली>निखिलं राष्ट्रं कोविड् विषाणोः जनितकपरिणामभूतः नूतनः ७७१ प्रकारभेदः प्रकारभेदाः दृष्टाः इति 'इन्साकोग्' [Indian Sars Covi 2 Consortium of Genomics] इत्यनेन संस्थया निगदितम्। नूतनं रोगव्यापनात्मकः तरङ्गायमानः च 'एन् ४४०के' इति नामकृतः अयं प्रकारभेदः।
आभारतं ईदृशः प्रकारभेदः दृष्टः। केरलं आन्ध्रप्रदेशः, तेलङ्कानम् इत्यादिषु १८ राज्येषु दृष्टाः सन्ति।
Wednesday, March 24, 2021
पुरातनन्निवृत्तिवेतनम्पुनःप्रारम्भार्थं सर्वकारस्य विरोधे आन्दोलनेऽतिष्ठत् डॉ सुशान्तसिंहः।
वार्ताहरः- श्रीवत्स देशराजशर्मा मण्डी हिमाचलप्रदेश:
हिमाचल समूहस्य प्रदेशाध्यक्ष डॉ राजनसुशांत फतेहपुरे समर्थकैः सह अनुयायिभिःसहानिश्चतकालीनःसर्वकारस्य विरोधेऽतिष्ठत्।डॉ सुशान्तसिंहेन कथितं यद्यावत्प्रदेशस्य सर्वकारोऽस्माकङ्कथनानि नाङ्गीकरिष्यति तावत्तस्य सर्वकारम्प्रति रोषःएवमेव भविष्यति नात्र संशयः। अपि च डॉ महोदयेन कथितं यत् मार्चमासस्य त्रयोदशतारिकायाम्मुख्यमन्त्रिणःफतेहपुरागमनावसरे विभिन्नविषयैः सह पुरातनन्निवृत्तिवेतनस्यापि चर्चाऽभवत् तथा कार्यालये कार्यरतानां कर्मचारिणां वेतनस्यापि चर्चाऽभवत्।अस्यातिरिक्त अन्योऽपि जनहिताय ये ये विषया आसन् तेषामुपर्यपि चर्चाऽभवत्।एतेषां विषयानां पूर्णीकृते सप्ताहरिमाणसमयस्सर्वकारकृतैवासीत्परं मुख्यमन्त्रिण उपरि काऽपि प्रतिक्रिया नाऽभवत्।।
रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः।
रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः इति यु एन् सङ्घटनस्य अभयार्थि-विभागेन उक्तम्। ५६० जनाः व्रणिताः इत्यपि उक्तम्। ह्यः प्रातः दिक्षिण बङ्गलादेशस्य रोहिङ्ग्यानां अभयार्थिजनानां शिबिरे आसीत् अग्निबाधा। कोक्स् बसार् इत्यस्य बलुखालि शिबिरे आसीत् अग्निबाधयाः आरम्भः। तदनन्तरं समीपस्थेषु गृहेषु अपि अग्निबाधा अनुवर्तिता।
Tuesday, March 23, 2021
हिमाचलप्रदेशे चतुर्विंशतिलक्ष-सङ्ख्यकानां कर्मकराणाम् अप्रैलमासस्य प्रथमदिनाङ्कतः पारिश्रमिकस्य वर्धनं भविता।
वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:
Monday, March 22, 2021
2050 संवत्सरे समागते 25% जनेभ्यः श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसंघटनम्
समागतेषु संवत्सरेषु श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसङ्घटनस्य पूर्वसूचना। 2050 संवत्सरे समागते 25% जनेभ्यः श्रवणसंबन्ध पीडा भविष्यति इति 'ग्लोबल् रिपोर्ट् ओण् हियरिङ्' इति आवेदने स्पष्टीकरोति। अणुबाधा, रोगाः, जन्म वैकल्यः, शब्दमलिनीकरणं, जीवितशैलीपरिवर्तनं च कारणत्वेन उच्यते। अतिश्रद्धा दीयते चेत् दोषान् परिहर्तुं शक्यते इति आवेद्यते विश्व स्वास्थ्य सङ्घटनेन।हिमाचलसेनाप्रवेशार्थम् आगतानां युवकानां एन्.एच्. इत्यस्मिन् यानचक्रम् अवरुद्धम्, ते घण्टात्मकं विवादाक्रोशनं कृतवन्तः ।
वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:।
Sunday, March 21, 2021
भारत-यू एस् सैनिकसहयोगः विपुलीक्रियते।
नवदिल्ली> फ्लोरिडा मध्ये वर्तमानेन 'यू एस् सेन्ट्रल् कमान्ड्' इत्यनेन, भारत-पसफिक् मण्डले आफ्रिक्कायां च वर्तमानेन यू एस् कमान्ड् इत्यनेन च सह प्रतिरोधसहयोगं बलवत्कर्तुं भारतेन निर्णीतम्। दिनत्रयसन्दर्शनार्थं गतदिने भारतं प्राप्तवता यू एस् राष्ट्रस्य प्रतिरोधसचिवेन लोय्ड् जयिंस् ओस्टिन् इत्यनेन सह कृतायाः चर्चायाः परं भारतस्य रक्षामन्त्री राजनाथसिंहः एव विषयममुं निगदितवान्।
भारतेन सह अमेरिक्कायाः सैनिकसहयोगस्य प्रवर्धनमेव बैडनप्रशासनस्य प्रथमपरिगणनेति ओस्टिन्वर्येण चोक्तम्।
कोविडस्य विनाशाय उन्नतावृत्तितशब्दतरङ्गेण शक्यते।
बोस्टण्> उन्नतावृत्तितशब्दतरङ्गेन कोविड् वैराणुं नाशयितुं शक्यते इति अनुसन्धानस्य फलम्। यु एस् मासच्युसेट्स् संस्थायाः अनुसन्धाताः एव नूतनानुसन्धानस्य पृष्टतः। मनुष्याणां श्रवणागोचरान् उन्नतावृत्तिसहितान् शब्दतरङ्गान् प्रति कथं प्रतिकरोति इति अनुसन्धानं कृत्वा आसीत् नूतनं अध्ययनम्। चिकित्सायाम् उपयुज्यमानानाम् उन्नतावृत्ति-शाब्दतरङ्गाणां प्रकम्पनेन कोविडादि वैराणुनां नाशं भवति इति एतैः प्रत्यभिज्ञाताः। Mechanic's And Physics of Solid इति पत्रिकायाम् आवेदनमिदं प्रकाशितम् अस्ति।पाकिस्थानप्रधामन्त्री इम्रान् खानः कोविड्बाधितः।
राष्ट्रस्य वाक्सिनीकरणबोधवत्करणस्य अंशतया इम्रान् खानः गुरुवासरे वाक्सिनं स्वीकृतवानासीत्। कोविडस्य तृतीयः तरङ्गः आराष्ट्रं बाधितः इति सर्वकारेण गतसप्ताहे स्पष्टीकृतमासीत्।
पाकिस्थाने निखिलं षट् लक्षाधिकाः जनाः कोविड्बाधिताः, १३,७९९ जनाः मृत्युमुपगताः इति जोण् होप्किन्स् विश्वविद्यालयेन प्रकाशिते आवेदने सूचितम्।
Saturday, March 20, 2021
कोविडस्य तृतीयतरङ्गः - यूरोपीयराज्येषु भागिकं पिधानम्।
पारीस्> कोविड् महामारेः तृतीयतरङ्गं नियन्त्रयितुं फ्रान्स् , पोलण्ट् इत्यादिषु राष्ट्रेषु भागिकपिधानं प्रख्यापितम्। पारीस् नगरमभिव्याप्य १६ नगरेषु शुक्रवासरादारभ्य नियन्त्रणानि विधत्तानीति तत्रत्यः प्रधानमन्त्री जीन् कास्टेक्स् इत्यनेन निगदितम्।
गतासु २४ होरासु ३५,००० नूतनानि प्रकरणानि आवेदितानि। १२०० रोगिणः राष्ट्रे अतितीव्रविभागे परिचर्यायां वर्तन्ते इति स्वास्थमन्त्रिणा उक्तम्।
पोलण्टे कोविडस्य तृतीयतरङ्गः अतितीव्रः जातः। अतः राष्ट्रे कर्कशं पिधानं विधास्यते इति अधिकृतैरुक्तम्। ह्यः २२,९९८ जनाः रोगबाधिताः अभवन्।
जर्मनी देशे अपि जनितकपरिवर्तितः कोविड्रोगः शीघ्रं व्याप्यते । तत्र १७,४८२ रोगप्रकरणानि २२६ मरणानि च आवेदितानि।
जाग्रत्ताविषये अनवधानता - कोविड्बाधितानां संख्या वर्धते।
नवदिल्ली> भारते कोविड्रोगबाधितानां प्रतिदिनसंख्या वर्धते। गतदिने ३५,८७१ जनाः रोगबाधिताः अभवन्। डिसम्बर् ६ दिनाङ्कात्परम् उच्चतरा संख्या भवत्येषा।
महाराष्ट्रे एव रोगबाधिताः अनुदिनं वर्धते। गतदिने २३,००० अधिकं जनाः रोगबाधिताः जाताः। मरणान्यपि तत्रैव अधिकतरं दृश्यन्ते - १७२। पञ्चाबे ३५ जनाः कोविडेन मृत्युवशं गताः।
Friday, March 19, 2021
बन्धं बलवत्कर्तुं भारत-कुवैट् आयोगः।
नवदिल्ली> विभिन्नमण्डलेषु सहयोगस्य शक्तीकरणाय भारतकुवैट् राष्ट्राभ्यां संयुक्तायोगः रूपीक्रियते। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, कुवैट् विदेशकार्यमन्त्री षैख् डो. अहम्मद् नासिर अल् मुहम्मद् अल् सहाब् इत्येतयोः उपवेशने एवायं निर्णयः कृतः।
ऊर्जः, आर्थिकः, निक्षेपः, मानवशेषी, उद्योगः, संस्कृतिः, शास्त्रम्, ऐ टि, स्वास्थ्यं, शैक्षिकं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु आयोगः प्राधान्यं कल्पते।
Thursday, March 18, 2021
त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता।
हरिद्वारम्> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।
रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति अखाडसंस्थया निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तिप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।
निर्वाचनप्रचारणं संस्कृतभाषायामपि
Wednesday, March 17, 2021
कोविड् रोगवर्धनं, प्रधानमन्त्रिणा मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः।
नवदिल्ली> राष्ट्रस्य विविधराज्येषु कोविड् रोगिणां संख्या वर्धिता इत्यनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः। अद्य ओण् लैन् द्वारा आसीत् उपवेशनम्।
अस्मिन् संवत्सरारंभे कोविड् व्यपने न्यूनताभवत्। चेत् अपि अधुना पुनरपि व्यापनम् अनियन्त्रितं भवति। प्रतिरोधप्रवर्तनषु जनानां वैमुख्यम् एव रोगव्यापनवर्धनस्य कारणम् इति केन्द्रस्वास्थ्यमन्त्री हर्षवर्धनः अवदत्।
Monday, March 15, 2021
युद्धेन भार्यायाः तथा १३ पुत्राणां जीवाः संग्रहीताः। १२ पवित्रैः सह खातून् पितामहः।
खातून् पितामहः पवित्रैः सह स्वस्य हर्बनूष् ग्रामे। (चित्रं-AFP)इद्लिब्> सरियस्य आभ्यन्तर संग्रामेण अब्दुल् रसाख् अल् खातून् इत्यस्य कृषकस्य भार्यायाः तथा १३ पुत्राणां जीवाः संग्रहीताः। अवशिष्टानां १२ पवित्राणां रक्षाकर्तृत्वं ८४ वसस्कस्य पितामहस्य दायित्वमभवत्। एषः खातून् पितामहः हमयदेशस्य सम्पन्नः कृषकः आसीत्। किन्तु दशवर्षाणि यावत् अनुवर्तमानं युद्धं तस्य कुटुम्बं सम्पदं च अपाहरत्। युद्धे भागं स्वीकृत्य सुताः मृताः। गृहस्योपरि अग्निबाणपतनेन भार्या च मृताः। आभ्यन्तरयुद्धेन सिरियस्य सामान्यस्थितिः अधुना एवम् अनुवर्तते।










