OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, April 8, 2022

मूल्यातिवर्धनं - सभाद्वयेऽपि कोलाहलः, सभास्थगनम्। 

नवदिल्ली> इन्धन-उर्वरक-अवश्यवस्तूनां मूल्यातिवर्धनं प्रतिषिध्य संसद्द्वये अपि विपक्षदलानां कोलाहले सभा स्थगिता। मूल्यवर्धनमधिकृत्य चर्चा करणीया इति विपक्षदलीयानामपेक्षा सभाध्यक्षाभ्यां निरस्ता। अतःविपक्षसदस्याः सभाकार्यक्रमान् बहिष्कृतवन्तः।

Thursday, April 7, 2022

 ९९% जनाः मलिनीकृतं वायुं श्वसिति - विश्वस्वास्थ्यसङ्घटनम् । 


>>विश्वस्मिन् प्रतिशतं ९९ जनाः मलिनीकृतं वायुं श्वसिति इति विश्व-स्वास्थ्य-सङ्घटनेन (WHO) उच्चते। अनेन कारणेन सहस्रशः जनाः मृतिवशं गच्छन्ति। आविश्वं मलिनवायुना निभृतं वर्तते इति गणनाम् उद्घाट्य उच्यते। दरिद्रराष्ट्रेषु भवति अधिकं मलिनीकृतमानम् । संवत्सरे 7000000 जनाः मलिनीकरणेन हताः मलिनीकरणाधिक्येन संसूचितेषु ५० नगरेषु ३५ नगराणि भारते एव वर्तन्ते इति २०२० संवत्सरस्य प्रतिवेदने सं सूचितम् अस्ति।

ऐ ऐ टि काण्पूराय १०० कोटिरूप्यकाणि इन्डिगो सहस्थापकेन प्रदत्तानि।

नवदिल्ली> राष्ट्रे काण्पूर् इन्ड्यन् इन्स्टिट्यूट् ओफ् टेक्नोलजि इति विख्याताय प्रमुखशिक्षासंस्थायै १०० कोटि रूप्यकाणि दानं कृत्वा विस्मयपात्रम् अभवत् इन्डिगो वायुमार्गस्य सह स्थापकः राकेष् गाङ्वालः। ऐ ऐ टि काण्पूरस्य पूर्वविद्यार्थी आसीत् गाङ्वालः। ऐ ऐ टि काण्पूरस्य निदेशकेन अभय् करण्डिकरेण विषयमिदं ट्वीट् कृतम् । ऐ ऐ टि स्कूल् ओफ् मेडिक्कल् सयन्स् आन्ट् टेक्नोलजि संस्थायाः विकासाय प्रदान मिदम् उपयोत्स्यति।

 वंगान्तरालसमुद्रे तापः वर्धते। 

कोच्ची> वंगान्तरालसमुद्रे तापः अधिकतया संवर्धते इत्यतः एव चक्रवातावर्तस्य अतिवृष्टेः च कारणमिति गवेषणफलम्। कोच्चीस्थे 'कुसाट् रडार् गवेषणकेन्द्र'स्य  शास्त्रज्ञः डो एम् जि मनोजकुमारः अमुं वृत्तान्तं व्यजिज्ञपत्। 

    मासद्वयाभ्यन्तरे त्रयः चक्रवातावर्ताः जाताः। पर्यावरणव्यतियानेनैव समुद्रे इदमतितापनम्। वंगान्तस्समुद्रे कतिचित्स्थानेषु  २९ - ३० डिग्रीपरिमितमेव तापः। साधारणतापात् ०.५ आरभ्य १डिग्रीपर्यन्तमधिकः भवति। हरितगृहवातकानाम् अमितसान्निध्यमेव भूतलतापवर्धनस्य कारणम्। अस्य वर्धिततापस्य ९३% समुद्रः एव स्वीकरोति। तस्यानन्तरफलमेव चक्रवातावर्ताः मेघगर्जनेन  सह वृष्टिः।

Wednesday, April 6, 2022

 श्रीलङ्कायां सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्; राष्ट्रं निर्वाचनमवाप्नोति। 

कोलम्बो> श्रीलङ्कायां विपक्षदलानां निस्सहकरणेन सर्वदलीयप्रशासनरूपीकरणं विफलं जातम्। संसदः ४२ सदस्याः त्यागपत्रं समर्पितवन्तः इत्यतः गोताबय राजपक्से इत्यस्य सर्वकारः दुर्बलोऽभवत्। सामान्यनिर्वाचनात्  ऋते न अन्यः पदक्षेपः अस्ति इत्यवस्थां प्राप्नोति देशः। 

  २२५ अङ्गयुक्ते श्रीलङ्कासंसदि गोताबयसर्वकाराय १५० सदस्यानां सहयोगमासीत्। किन्तु ४२ सदस्यानां त्यागपत्रसमर्पणेन अंगबलं १०८ इति न्यूनीभूतम्। केवलभूरिपक्षाय ११३ सदस्यानां सहयोगः आवश्यकः।

Tuesday, April 5, 2022

 श्रीलङ्कायां राजपक्सेप्रशासनेन त्यागपत्रं समर्पितम्। 

कोलम्बो> आर्थिकसंकटेन श्रीलङ्कादेशे जनकीयप्रक्षोभे तीव्रे जाते प्रधानमन्त्री महिन्द राजपक्से इतरे मन्त्रिणश्च त्यागपत्रं समार्पयन्। राजपक्से सर्वकारं विरुध्य जनाः आपत्कालीनव्यवस्थां कर्फ्यूनामकं निरोधं च तृणवत्कृत्य वीथिं सम्प्राप्य प्रतिषेधं प्रकटितवन्तः आसन्। 

   अल्पकालिकरूपेण सर्वदलीयप्रशासनरूपीकरणाय प्रयत्नः आरब्ध इति सूच्यते।

भारते कोविड्रोगिणः अधोसहस्रं प्राप्ताः। 

नवदिल्ली> राष्ट्रे वर्षद्वयानन्तरं प्रथमतया प्रतिदिनकोविड्रोगिणां संख्या सहस्रादधः जाता। गतदिने केवलं ९१३ जनाः रोगबाधिताः अभवन्। 

  १३ रोगिणः ह्यः मृत्युवशं गताः। आहत्य मृत्युसंख्या ५,२१,३५८ अभवत्। १२,५९७ रोगिणः परिचर्यायां वर्तन्ते। 

   रोगिणां संख्या आकुञ्चति इत्यतः मुखावरक-शारीरिकदूरं विहाय सर्वाणि नियन्त्रणानि सर्वकारेण अपाकृतानि आसन्। दिल्ली, महाराष्ट्रं, पश्चिमवंगराज्यैः मुखावरकम् अनपेक्षणीयं कृतमस्ति।

Sunday, April 3, 2022

 ब्रिट्टणे ओमिक्रोण् वि भेदापेक्षया अतिव्यापनक्षमतायुक्तः एक्स् ई नाम नूतनः कोविड्रोगाणुविभेदः दृढीकृतः।

लण्डन्> ब्रिट्टणे नूतनः कोविड्रोगाणुविभेदः दृढीकृतः इति विश्वस्वास्थ्यसंस्था। एक्स् ई इति नाम्ना ख्यातस्य रोगाणुविभेदस्यास्य ओमिक्रोण् नाम विभेदापेक्षया अतिव्यापनक्षमता अस्ति इति विश्वस् वास्थसंस्थया प्रकाशिते प्रतिवेदने सूचितमस्ति। प्राथमिकतलनिरीक्षणे ओमिक्रोणस्य बि ए 2 विभेदापेक्षया दशगुणिता व्यापनक्षमता भवितुं साध्यता अस्ति इति विश्वस्वास्थ्यसंस्था अभिप्रैति।

 श्रीलङ्कायाम् आपत्कालीनशासनव्यवस्था। 

कोलम्बो> तीव्रेणार्थिकप्रतिसन्धिना क्लेशमनुभवत्यां श्रीलङ्कायां जनानां प्रक्षोभं प्रतिरोद्धुं शुक्रवासरस्य अर्धरात्रादारभ्य आराष्ट्रम् आपत्कालीनशासनव्यवस्था विधत्ता। शनिवासरस्य सायं षड्वादनतः ३६ होरात्मकं 'कर्फ्यू'नामकं प्रवर्तननिरोधनं च विहितम्। राष्ट्रपतेः गोताबय राजपक्सेवर्यस्य गृहस्य पुरतः गतदिने संवृत्तः प्रतिषेधः अक्रमासक्तः अभवदित्यनेन हेतुना एव आपत्कालिका व्यवस्था विहिता। 

   प्रत्युत अद्य राष्ट्रे सर्वत्र 'अरबवसन्त' प्रक्षोभसदृशानि प्रतिषेधप्रवर्तनानि आयोजयितुं आह्वानं कृतम्। अनेनैव कारणेनैव सोमवासरे प्रभातपर्यन्तं  कर्फ्यू विहितम्। 

  कोलम्बोमध्ये राष्ट्रस्य विविधस्थानेषु च सैनिकबलं विन्यस्तम्। तन्त्रप्रधानानि स्थानानि  सुरक्षया प्रबलीकृतानि।

बालभारती पब्लिक विद्यालये नवसत्रारम्भ: पुस्तकविमोचनञ्च

नवदिल्ली> सर गंगाराम हॉस्पिटल मार्गस्थिते, बाल भारती पब्लिक् विद्यालये कोरोना-संक्रमणस्य भयानकस्थिते: पश्चात् ऐदम्प्राथम्येन भौतिकरूपेण नूतन-शैक्षिकसत्रस्य आरम्भस्य उपलक्ष्ये शनिवासरे हवनकार्यक्रम: आयोजित:। अस्मिन् आयोजने विद्यालयस्य प्रधानाचार्य: श्री एल. वी. सहगलवर्य: उपप्रधानाचार्या श्रीमती मीना मल्होत्रा च मुख्ययजमानत्वेन उपातिष्ठताम्। अस्मिन् कार्यक्रमे सम्पूर्णविद्यालय-परिवार: उपस्थित: आसीत्। धर्मसंस्कारस्य ज्ञाता, भारतीयपरम्पराया: पुरोधा पंडित श्रीललितमिश्रवर्य: वेदमन्त्राणामुच्चारणपूर्वकं हवनं सम्पादितवान्। अस्मिन् हवने सर्वै: उपस्थित-शिक्षकै:, छात्रै,: च समस्तविद्यालयस्य सदस्यै: साकं

Saturday, April 2, 2022

 शतदिनाभ्यन्तरे अयुतं जनानां सर्वकारोद्योगं दातुम् उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य निर्देशः। 


लक्नौ> आगामिनि शतदिनाभ्यन्तरे राज्ये अयुताघिकान् युवकान् सर्वकार सेवायै नियोक्तुम् उतरप्रदेशस्य मुख्यमन्त्रिणा योगी आदित्यनाथेन निर्देशो दत्तः। युवकेभ्यः सर्वकारोद्योगः दातुं सर्वकारः प्रतिज्ञाबद्धः इति सः अवोचत्। तदर्थं सर्वाभ्यः सेवनचयनसमितिभ्यः सर्वकारेण निर्देशो दत्तः इति योगी आदित्यनाथेन ट्वीट् कृतम्।

Friday, April 1, 2022

 महाराष्ट्रे मुखावरकं निवार्यते।

मुम्बई> महाराष्ट्रे मुखावरणधारणमभिव्याप्य सर्वाणि कोविड् नियन्त्रणानि दूरीकृतानि। गतदिने मन्त्रिमण्डलस्य उपवेशानन्तरं मुख्यमन्त्रिणा उद्धव ताक्करे वर्येणैव निर्णयाः प्रख्यापिताः। 

  मरात्तीयानां नववत्सरदिनात् एप्रिल् द्वितीयदिनाङ्कतः एतानि लाघवानि प्रवृत्तिपथमागमिष्यन्ति। वर्षद्वयानन्तरमेव राज्ये कोविड् नियन्त्रणानि अपनीयन्ते।

Wednesday, March 30, 2022

 युक्रेन् - आक्रमणं न्यूनीकरिष्यतीति रषिया।

कीव्> तुर्कीस्थे इस्ताम्बूले सम्पन्नायां शान्तिचर्चायाम् आश्वासपूर्णा प्रगतिः। कीव् चेर्णीव् क्षेत्रेषु आक्रमणं न्यूनीकरिष्यतीति रषियायाः प्रतिनिधिसंघे अन्तर्भूतः रक्षासहमन्त्री अलक्साण्टर् फोमिन् इत्यनेन निगदितम्। चर्चायां आशावहा प्रगतिरभूदिति मध्यस्थः तुर्कीराष्ट्रपतिः रजप् तय्यिप् इत्येषश्च प्रोक्तवान्। पुटिन-सेलन्की मेलनम् अचिरादेव भविष्यतीति चर्चायाः युक्रेनस्य प्रतिनिधिः डेविड् अराखामिया इत्यनेन उक्तम्। 

  'नाटो' समित्यामङ्गत्वमिति याचना युक्रेनेन त्यक्ता इति सूच्यते। किन्तु नाटोनियमस्य पञ्चमानुच्छेदमनुसृत्य राष्ट्रसुरक्षा आवश्यकीति युक्रेनस्य अपेक्षा। प्रतिसन्ध्यवस्थासु राष्ट्रैः परस्परसाह्यं करणीयमिति पञ्चमानुच्छेदस्य सत्ता।

 इन्धनमूल्यं षष्ठदिनेऽपि वर्धापितम्। 

कोच्ची> यानेन्धनस्य मूल्यं अनुस्यूततया षष्ठदिनेऽपि वर्धापितम्। पेट्रोल् तैलस्य ८८ पैसापरिमितस्य डीसल् तैलस्य ८४ पैसापरिमितस्य च वर्धनं गतदिने जातम्। अनेन केरले पेट्रोल् तैलस्य डीसल् तैलस्य च मूल्यं यथाक्रमं ११०. २८, ९७. ३२ रूप्यकाणि अभवन्। मार्च् २२ दिनाङ्कतः षट् रूप्यकाणां वर्धनमभवत्।

नवदिल्ल्याम् उड्डयनात् पूर्वं स्तम्भे घट्टयित्वा विमानस्य पक्षः भग्नः।

नवदिल्ली> नवदिल्ली विमानपत्तने उड्डयनात् पूर्वं स्पैस् जेट् विमानम् वैद्युतस्तम्भे अघट्टयत्। घट्टनाघातेन स्तम्भः पूर्णतया भग्नः। विमानस्य तु क्षतिः अभवत्। विमानयात्रिकाः क्षतिं विना रक्षां प्रापुः। नवदिल्लीतः जम्मूकाश्मीरं प्रति प्रस्थितस्य विमानस्य वामपक्षः एव वैद्युतस्तम्भे घट्टयित्वा विदीर्णः। घटनायाः अस्याः अन्वेषणाय अधिकृतैः निर्देशो दत्तः।

Tuesday, March 29, 2022

हरियाणासंस्कृतविद्यापीठे अन्ताराष्ट्रियसंगोष्ठी॥ 

(वार्ताहरः वत्स देशराज शर्मा)


नवदिल्ली> सामोदं संकेतयामि दिल्ली-केन्द्रीय-संस्कृतविश्वविद्यालयेन सम्बद्धे यद्धरियाणा-संस्कृतविद्यापीठे द्विदिवसात्मिका अन्ताराष्ट्रिय-संस्कृतसंगोष्ठी संजाता। यस्यां संगोष्ठ्यां विविधबुधकुलालंकारा विभिन्नेभ्यो राज्येभ्यो विदेशेभ्यश्च सम्प्राप्ताः। यस्याः संगोष्ठ्या विषयोऽतीवरुचिकरो ज्ञानवर्धकश्चासीत् यथा- एकविंशशताब्द्या

 इम्रान् खानं विरुध्य अविश्वासप्रमेयः - पाकिस्तानसंसदि चर्चा आरब्धा। 

इस्लामाबादः> प्रधानमन्त्रिणं इम्रान् खानं विरुध्य समर्पिते अविश्वासप्रमेये पाकिस्तानसंसदि चर्चा आरब्धा। राष्ट्रियसंसदः विपक्षनेता तथा च 'पाकिस्थान् मुस्लीमलीग् [नवास्]' दलस्य अध्यक्षः षेह्बास् षरीफ् इत्यनेन प्रमेयपत्रं अधोसभायां समर्पितम् ।

  चर्चां पूर्तीकृत्य एप्रिल् ३ - ७ दिनाङ्कयोर्मध्ये प्रमेयस्योपरि मतदानं भवेत्।

 प्रधानमन्त्रीपदात्  निष्कासयितुं विदेशधनम् उपयुज्यते- इम्रान्खानः।


इसलामाबाद्> अविश्वासनिर्णय-विधेयकद्वारा निष्कासनभीषां अभिमुखीक्रियमाणः पाकिस्थानस्य प्रधानमन्त्री इम्रान्खानः इस्लामाबादे स्वस्य दलस्य शक्तिं प्रदर्शितवान्। प्रधानमन्त्रीपदात् तं निष्कासयितुं विपक्षदलीयाः विदेशधनम् व्ययं कुर्वन्ति इत्यस्मिन् विषये स्ववशे प्रमाणमस्ति इति सहस्रशान् जनान् अभिसंबोधनं कृत्वा इम्रान्खानेन प्रोक्तम्।

Monday, March 28, 2022

 राष्ट्रं विभक्तुं रषिया यतते - युक्रेनः। 

कीव्> राष्ट्रं द्विधा विभक्तुं रषिया यतते इति युक्रेनस्य गुप्तान्वेषणविभागस्य प्रमुखः किरिलो बुधनोवः आरोपितवान्। राष्ट्रविभजनाय अपेक्षितान् प्रदेशान् स्ववशं कर्तुं युक्रेनस्य पूर्वमण्डलेन सह क्रैमियां सम्बद्धुं च रूस् राष्ट्रपतेः व्लादिमर् पुतिनस्य लक्ष्यमिति सः उक्तवान्। 

  प्रत्युत रूस् राष्ट्रेण सह मेलितुं जनानां तात्पर्यावगमनाय युक्रेनस्य लुहान्स्क् प्रदेशे  हितपरिशोधनां करिष्यतीति तत्रस्थैः रषियानुकूलविमतैः उक्तम्। लुहान्स्क्, डोणटिस्क् नामकाः प्रदेशाः स्वतन्त्राः अभवन्निति पुटिनेन पूर्वं प्रख्यापितमासीत्।

जीवजलस्य कृते श्रीमान् नारायणाय मोदिनः अभिनन्दनानि।


कालटी> प्रधानमन्त्रिणः मोदिनः 'मन की बात' इति आकाशवाणीकार्यक्रमे आसीत् उपरि दत्तं वचनम्। केरलीयः एरणाकुलं देशीयः श्रीमान् नारायणः एव अभिनन्दनपात्रमभवत्। एषः महोदयः २०१८ आरभ्य अनुवर्तमाना परियोजना भवति यत् तत्र तत्र  जीविनां कृते जलपूर्णं एकैकं मृत्भाजनम् स्थापनीयम् इति । मनसि निधाय महोदयेन आरब्धा योजना भवति । मार्च् मासे उष्णाधिक्येन पक्षि-पशुवर्गाः पिपासार्ताः भवन्ति। सन्दर्भेऽस्मिन् तेषां जीवरक्षायै जीवजलदानमेव महोदयेन क्रियते। इतः पर्यन्तं लक्षाधिकानि मृत्भाजनानी महोदयेन स्थापितानि । भाजनस्य मूल्यं तु स्वयं व्ययीकरोति। एवं महता यत्नेन महोदयः स्वस्य पुण्यकर्मणि व्यापृतो वर्तते। 

Sunday, March 27, 2022

 सर्वकारं प्रति 'सविनयं' नावश्यकम्।

अनन्तपुरी> केरले सर्वकारीयसंस्थाः अभिव्याप्य सर्वकारीय-अर्धसर्वकारीय-सामान्यमण्डलसंस्थासु समर्प्यमानासु सामान्यजनानामभ्यर्थनासु 'विनम्रतया' इत्यर्थकं पदं नावश्यकमिति। राज्यस्य प्रशासनपरिष्कारविभस्यायमादेशः। सविनयमिति पदं परित्यज्य अभ्यर्थ्यते अपेक्षते वा इत्युपयोक्तुं शक्यते।

 चरकशपथम्' अधुना नास्ति।

नवदिल्ली> वैद्यकीयछात्राणां बिरुददानवेलायां 'हिप्पोक्राट्टीयशपथं' विसृज्य 'महर्षि चरकशपथम्' अन्तर्भावयितुं राष्ट्रिय वैद्यक आयोगस्य उपदेशं शीघ्रं न विधास्यतीति केन्द्रप्रशासनेन निर्णीतम्। विषयेऽस्मिन् स्वास्थ्यमन्त्रालयेन अद्यावधि निर्णयः न कृत इति लोकसभायां केषाञ्चित् सदस्यानां प्रश्नानां प्रतिवचनरूपेण स्वास्थ्यसहमन्त्री भारती पर्वीण् पवारः उक्तवान्। 

यानेन्धनमूल्यं पुनरपि वर्धितम्।

कोच्ची> अनुस्यूततया तृतीयदिने अपि पेट्रोल्-डीसलिन्धनयोः मूल्यं वर्धापितम्। षड्भिः दिनैः एतयोः मूल्ये चतुरधिकरूप्यकाणां वृद्धिरभवत्। 

 युक्रेनाय बैडनस्य अधिकसैनिकसाह्यवाग्दानम्। 

वार्सा> रषियां प्रतिरोद्धुं युक्रेनाय अधिकतया सैनिकसाह्यं करिष्यामीति अमेरिक्कायाः राष्ट्रपतिः जो बैडनः वाग्दानमकरोत्। चतुर्दिवसीयसन्दर्शनाय पोलण्टराष्ट्रं प्राप्तवान् बैडनः युक्रेनीयमन्त्रिभिस्सह कृते अभिमुखे एव वृत्तान्तमिदं न्यवेदयत्। युक्रेनस्य विदेशमन्त्री, रक्षामन्त्री, अमेरिक्कायाः विदेश-रक्षासचिवौ  इत्यादयः समुपवेशने भागं कृतवन्तः। 

  युक्रेनस्य आर्थिक मानवीय लक्ष्याणां च सर्वविधसहयोगाः अमेरिक्कया वाग्दत्ताः।

अद्य अर्धरात्रादारभ्य राष्ट्रियकर्मविरामः; अवश्यसेवाः परिवर्जिताः।

नवदिल्ली> केन्द्रसर्वकारं विरुध्य विपक्षदलीयैः संयुक्तकर्मचारिसंघटनैः उद्घुष्टं दिनद्वयस्य देशीयकर्मविरामान्दोलनं अद्य अर्धरात्रे आरभते। किन्तु क्षीर-वार्तापत्र-आतुरालयादीनि अत्यन्तापेक्षितानि सेवनानि कर्मविरामान्दोलनात् परिवर्जितानि। 

  मार्च् २७ रात्रौ १२ वादनतः २९ रात्रौ १२ वादनपर्यन्तमेवान्दोलनम्।