OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 21, 2018

तलाखत्रितयस्य दण्ड्यापराधकल्पनं - त्वरितादेशाय अनुज्ञा।
नवदिल्ली > विपक्षदलस्य वैरुध्यप्रदर्शनेन राज्यसभायां लग्नं तलाखत्रितयविधेयकं  त्वरितादेशाज्ञारूपेण पुनरानेतुं केन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। एकस्मिन्नेव समये  त्रिवारं  विवाहभग्नकं वाक्यम्  (तलाखत्रितयं) उक्त्वा भार्याम् अपास्यते चेत् तत् दण्ड्यापराधो भविष्यति।
     वाचा, लिखितेन, 'इलक्ट्रोणिक्' माध्यमैः,  जङ्गमदूरवाणीभिः वा एकस्मिन् समये तलाखत्रितयोक्तिः संवत्सरत्रयस्य कारागारवासं द्रव्यदण्डं च लभ्यमानः अपराधः भविष्यति! तलाखत्रितयविधेया महिला जीवनांशार्हा भविष्यति। महिलायाः परिवारस्य वा आवेदनानुसारमेव व्यवहारप्रक्रमः स्यात्! यदि भर्ता अनुरञ्जनाय प्रक्रमते तर्हि न्यायाधीशस्य सान्निध्ये अनुरञ्जनं साध्यते। तलाखत्रितयापराधः आरक्षकेभ्यः प्रातिभाव्यार्हः न भवति। महिलायाः आवेदनश्रवणानन्तरम्आवश्य़कं चेत् न्यायाधीशेन प्रातिभाव्यं दातुमर्हति।