OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 19, 2018

भिन्नशेषियुतस्य एकस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् प्रशंसार्पणम्। 
-रम्या पी यू        
               हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; कस्मिश्चन पाठनीये विषये भाषमाणः यः, सः एव अध्यापकः इति चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, साक्षादरुणः इव अनूरुः ज्ञानसूर्यस्य सारथिः इव ज्ञानकिरणप्रकाशान् छात्रेषु प्रसारयन्, सर्वोपरि शारीरिकपरिमित्या क्लेशं सहमानः सन्, स्वकीयं क्लेशं अविगणयन्, पाठे मग्नस्य कस्यचन आचार्यस्य महत्वं अधुना समाजमाध्यमेषु चर्चायते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।