OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 19, 2018

लयनवीथ्यां वित्तकोशाः
-बिजिला किषोरः
    कोच्ची > विजया, बरोडा, देनेत्यादयः वित्तकोशाः लीयन्ते। एतेषां लयनेन देशे तृतीयस्य बृहत्तमवित्तकोशस्य उत्पत्तिर्भविष्यतीति केन्द्रधनकार्यसेवा कार्यदर्शिना  श्री राजीव कुमार महोदयेन सूचितम्। अनेन १४.८२ लक्षं कोटि रूप्यकाणां लाभः भविष्यति इति विश्वासः।
          वित्तकोशे विद्यमानानां कर्मकराणां संरक्षणं करिष्यतीति केन्द्रधनकार्यमन्त्रिणा अरुण् जय् टिली महोदयेन अद्य प्रख्यापितम्। लयनपर्यन्तं वित्तकोशाः स्वतन्त्ररूपेण व्यवह्रियन्ते स्म। भाविनि कालेपि एतादृशलयनं भविष्यतीति मन्त्रिणा सूचितम्।