OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 12, 2018

बन्धनसमरमुखात् शिशोः अतुरालयप्रापणे विलम्बः 
शिशिशोः मृत्युविषये  कोण्ग्रस् दलं विरुद्ध्य केन्द्रमन्त्री
            रम्या पी यू।
     पट्ना> जेहनाबादे भारतबन्दानुकूलिनः वाहनानि उपरोधितवन्तः। पश्चाज्जातेन गतागतसम्मर्द्देन शिशुं नीत्वा गतं जीवनरक्षायानम् विलम्बेनैव आतुरालयम् प्राप्तवत्। अतः शिशुमरणम् अभवत् इति मन्त्री रविशङ्करप्रसादस्य आरोपणम्। "प्रतिषेद्धुमवकाशः सर्वेषां वर्तते। किन्तु इन्धनपूरणशालानां लोकयानानां वा अग्निसंक्रमणम्, जीवनानाम् अपघातेषु पातनम् एतानि अक्षन्तव्यानि एव। जीवनरक्षायानं गतागतसम्मर्द्दे पतितमित्यतः शिशुमरणमभवत्। एतस्य उत्तरदायित्वं कस्य वा भवितुमर्हति?" -सः पृष्टवान्। किन्तु समयेस्मिन् शिशुमरणकारणम् गतागतसम्मर्द्दो नैवेति जेहनाबाद् उप-मण्डलाधिकारी  परितोषकुमारः वार्ताशृङ्खलाम् ए एन् ऐ प्रति आवेदयत्। गृहात् शिशुं नीत्वा निर्गमने बान्धवाः विलम्बमकुर्वन् इति सः योजितवान्।