OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 15, 2018

'स्वच्छता हि सेवा' अभियोजना अद्य आरभ्य।
    नवदिल्ली > राष्ट्रपितुः महात्मागान्धिनः  १५०तमस्य जन्मदिनाघोषस्य अंशतया नूतना स्वच्छतायोजना समारभ्यतेति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। 'स्वच्छता हि सेवा' इति दत्तनामिकेयं योजना शनिवासरे आरभ्यते। प्रभाते सार्धनववादने आरभ्यमाणायामस्यांयोजनायां परमसंख्याकाः जनाः भागभाजिनः भवन्तु इति मोदी अभ्यर्थितवान्। राष्ट्रपितुः स्वच्छभारतमिति सङ्कल्पनं साक्षात्कर्तुं चतुर्भ्यो संवत्सरेभ्यः पूर्वम् आरब्धायाः स्वच्छभारताभियोजनायाः अनुवर्तनमेवेयं योजना ।