OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 24, 2018

आयुष्मान् भारतयोजना  प्रधानमन्त्रिणा मोदिना उद्‌घाटिताl
         राञ्ची > सर्वकारस्य अधीने विद्यमानासु परियोजनासु भुवनस्य बृहत्तमा योजनेति विशेषेण 'आयुष्मान् भारत् - प्रधानमन्त्री जन आरोग्य योजना' (A B - P M J A Y) प्रधानमन्त्रिणा नरेन्द्रमोदिना समुद्घाटिता। लोके सर्वत्र विद्यमानाः गवेषकाः सामाजिकशास्त्रज्ञाश्च इमां परियोजनाम् आदर्शों कारयिष्यन्तीति उद्घाटनसमारोहे प्रधानमन्त्रिणा प्रोक्तम्। पण्डित दीनदयालु उपाध्यायस्य जन्मदिने, सेप्टम्बर् २५ दिनाङ्के योजनेयं प्राबल्ये भविष्यति। आर्थिकमण्डले पराङ्मुखे वर्तमानेभ्यः पञ्चाशत्कोटि भारतीयेभ्यः आरोग्यक्षेमविधानपरिरक्षां प्रमाणीकरोत्यनया योजनया। 
     योजनाव्ययस्य ६०% केन्द्रसर्वकारेण,  ४०% राज्यसर्वकारेण  च धार्यते।२२ राज्येषु केन्द्रशासनप्रदेशेषु अपि अस्याः प्रारम्भप्रवर्तनानि आरब्धानि।