OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 26, 2018

रेलयाने स्त्रीणाम् प्रति अतिक्रमः उग्रदण्डनं स्यात्।
                          रम्या पी यू। 
          नवदिल्ली > रेलयानेषु स्त्रियः उपरि अतिक्रमं कुर्वतां कृते वर्षत्रयाणां कारागारवासं  प्राप्तुं व्यवस्था क्रियमाणा वर्तते। एतदनुबन्धनिवेदनं रेलसंरक्षणसेना (आर् पी एफ्) अङ्गीकाराय समर्पयत्। ये तथा अतिक्रमं कुर्वन्ति तेषामुपरि कर्कशदण्डनं विधातुम् अनुमतिः आवश्यकी इति तेषाम् अभिप्रायः। एतदर्थं विद्यमानरेलनियमेषु परिवर्तनं स्वीकरणीयेति आर् पी एफ् आवश्यमुन्नयति।
         अधुना रेलयाने स्रीणामुपरि अतिक्रमाय दीयमानं दण्डनम् भारतदण्डननियमानुसारम् (ऐ पी सी) भवति। एवंकृतः अक्रमी अधिकतमतया एकवर्षस्य दण्डनम् एव अधुना सहते। रेलयाने स्त्रीणामुपरि अतिक्रमाः वर्धिताः इत्यस्मात् एषः निर्देशः। निर्देशे अङ्गीकृते नाम रेलारक्षकाणां साहाय्यं विनैव अक्रमिणः उपरि दण्डनविधिम् निर्देष्टुम् आर् पी एफ् शक्नोति।