OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 18, 2018

विश्वप्रसिद्धः एष्यायाः बृहत्तमः कौमारकलोत्सवः 
 आलप्पुष़ा जनपदे।
-बिजिलाकिषोरः
   आलप्पुष़ा> एष्या भूखण्डे बृहतमः  केरलराज्यस्तरीयः विद्यालयकलोत्सवः ललितरीत्या भविष्यति इति शिक्षा मन्त्री श्री रवीन्द्रनाथः अवोचत्। छात्राणां प्रगतेः विघाताय किमपि न करिष्यति इति मन्त्रिवर्येण उक्तम्। मेलायाः भोजनव्यवस्था कुटुम्बश्री  द्वारा करिष्यति। इदानींतन रीत्या एव सम्मानिताङ्कः ('ग्रेस् मार्क्') यच्छति।प्राथमिकं एवं माध्यमिकस्तरे विद्यालयीयमेला भविष्यति। प्रलयस्य पश्चात्तले वर्षेस्मिन् उत्सवाचरणम् उपेक्षणीयमिति नर्दिष्टम्। अतः विश्वविद्यालयकलोत्सवः तथा अन्ताराष्ट्र चलनचित्रमेला च निष्कासितम्। उत्सवाचरणाय आर्जितं धनं मुख्यमन्त्रिणः दुरिताश्वास निध्यां यच्छन्ति।