OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 16, 2018

संस्कृत दिनाचरणम् सम्पद्यते
-बिजिला किषोर्
 
    तामरश्शेरी> तामरश्शेरि शैक्षिकजिल्लायाः संस्कृतदिनाचरणं तथा प्रलये दुरितबाधितानां छात्राणां कृते पुस्तकदानं च प्रवृत्तम्। नन्मण्ड उच्चविद्यालये प्रवृत्त कार्यक्रमस्य उद्घाटनं बालुश्शेरि उपजिल्ला अध्यक्षः (AEO) श्री रघुनाथमहोदयेन कृतम्। संस्कृतभारत्याः प्रचारकः श्री रणजित् महोदयः संस्कृतसन्देशं दत्तवन्तः। मानव सेवा माधव सेवा ,संस्कृतज्ञाः वयं संस्कृतभाषायाः विकासाय तन,मन,धन। समर्पणं कर्तुं उद्युक्ताः भवामः इति तेनोद्घोषितम्।
    
       प्रलये दुरितबाधितानां छात्रां कृते विविध उपजिल्लातः सञ्चितानि पुस्तकानि रघुनाथमहोदयाय  शौक्षिकजिल्लायाः संस्कृतशैक्षिकसमित्‍यः कार्यदर्शी विष्णुप्रसादः, उपकार्यदर्शी श्रीमति बिजिला च समर्पितवन्तौ।

     दिनाचरणानुबन्ध कार्यक्रमरूपेण रामायण-प्रश्नोत्तरमासीत्। उच्चविद्यालयतः पेराम्प्र विद्यालयस्य छात्राः प्रथमस्थानं, सरस्वती विद्यामन्दिरस्य छात्राः द्वितीयस्थानं च अलंकृतवन्तः। माध्यमिकस्तरे ए यु पि एस् कल्पत्तूर प्रथमस्थानं, ए यु पि एस् कावुन्तरा  द्वितीयस्थानं प्राप्तवन्तः। आदर्श विद्यापीठं बालुश्शेर्याः आचार्यः डोः मनोज् कुमारः पुरस्कारं समर्पितवान्। कुट्टम्पुर् उच्चविद्यालययस्य संस्कृतछात्राः नृत्त संगीतशिल्पस्य अवतारणम् कृतवन्तः। कार्यक्रमेस्मिन् टी के सन्तोष् कुमारः, श्री शङ्करनारायणः च आशंसाभाषणं कृतवन्तः।