OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 16, 2018

'स्वच्छता हि सेवा' समारब्धा। 
        नवदिल्ली >  स्वच्छभारतम् लक्ष्यीकृत्य केन्द्रसर्वकारेण आविष्कृता स्वच्छता हि सेवा इति शुचित्वप्रचारणाभियोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। दिल्ल्यां पहाड्गञ्चप्रदेशस्थे 'बाबा साहिब् अम्बद्कर् उच्चतरविद्यालये आयोजिते स्वच्छताप्रवर्तने  सः भागं स्वीकृतवान्। राष्ट्रपितुः महात्मागान्धिनः १५०तमस्य जन्मवार्षिकोत्सवस्य अंशतया आयोजितः अयं कार्यक्रमः अक्टूबर द्वितीयदिनाङ्कपर्यन्तं भविष्यति। 
      "जनानां शुचित्वसङ्कल्पने महत्परिवर्तनं कर्तुं चतुस्संवत्सरेभ्यः पूर्वमारब्धया स्वच्छभारतमित्यायोजनया साधिता। चतुर्भिः संवत्सरैः नवकोटिसंख्याकाः शौचालयाः निर्मिताः। सार्धचतुर्लक्षेषु ग्रामेषु अनावृते प्रदेशे मलविसर्जनं इत्येतत् अनया समापितम्। महात्मागान्धिनः शुचित्वभारतसङ्कल्पनस्य साक्षात्काराय अस्माभिः युगपत् प्रयतितव्यम्" मोदिना उक्तम्।