OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 15, 2018

'फ्लोरन्स्' चक्रवातात् अमेरिका भीत्यां - 
       विल्मिङ्टण् > यू एस् राज्यसमूहे अस्य शताब्दस्य अत्यन्तं शक्तियुक्तः चक्रवातः 'फ्लोरन्स्' नामाख्यः गतदिने उत्तरकरोलैनातीरं  प्राप्तः। १४० कि मी परिमितेन वीजमानेन चक्रवातेन सह अतिवृष्टिरपि अस्ति। अतः जलोपप्लवस्य साध्यता वर्तते। चतुर्षु राज्येषु विपत्कालीनजाग्रता प्रख्यापिता। दशलक्षाधिकाः जनाः चक्रवातबाधां विशङ्कमानेभ्यः प्रदेशेभ्यः निर्वर्तिताः। १५०० विमानगतागतानि स्थगितानि।जलोपप्लवंसम्मुखीकर्तुं राष्ट्रं सुसज्जं  भवतीति राष्ट्रपतिना डोणाल्ड् ट्म्पेनोक्तम्। किन्तु जनाः जागरूकाः भवेयुः।