OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 19, 2018

मलिनीकरणस्य परिहारः- हैड्रजन् रेलयानम्‌ अगमिष्यति।
चित्रम् - रोयिट्टर् 
     ब्रेमर् वोडे> हैड्रजन् वातस्य साह्येन धावमानं विश्वस्य प्रप्रथमं रेल्यानं जर्मन् राष्ट्रेण निर्मितम्। डीसल् तैलस्य उपयोगेन जायमानं मलिनीकरणं विहाय परिस्थितिसौहृदतान्त्रिकविद्याम् उपयुज्य एव हैड्रजन् रेल् यानं अवतार्यते। 
     फ्रान्स् राष्ट्रस्य अतिवेग 'इन्टर् सिट्टि' सेवा इति सुज्ञाता टि जि वि इत्यस्य निर्मातृणा 'आल् स्टं' संस्थया निर्मिते द्वे याने एव बहिः प्रदर्शितम्। उतर जर्मन् प्रदेशस्य नगरद्वयं सम्बन्ध्य एते याने धावतः। हैड्रजन् ओक्सिजन् वातयोः मेलनेन वैद्युतिम् उद्पादयन्तः विद्युत्कोष्टाः एव अस्मिन् उपयुज्यन्ते। जलवातः जलं च बहिः उद्गच्छतः। उद्‌पादितः ऊर्जः याने स्थापितं 'लिथिय'कोष्टे समाहरति। एकवारस्य हैड्रजन् पूरणेन सहसं किलोमीट्टर् पर्यन्तं धावयितुं क्षमता अस्ति। डीसल्-यानस्य क्षमता अपि सहस्र किलोमीट्टर् एव।