OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 22, 2018

द्विचक्रिकाम् अनन्तरं क्रेष्यावः,  तदर्थं सञ्चितं भण्डारे स्थापितं धनम् अनुः आञ्जनेयश्च दुरिताश्वासनिधिम् प्रति दत्तवन्तौ।।
                   रम्या पी यू।  

       पत्तनंतिट्टा> स्वकीयैका द्विचक्रिका तयोः स्वप्नमासीत्। तदर्थम् पितृभ्यां दत्तानि  कानिचिन्नाणकानि निधिसंरक्षणरूपेण भण्डारघटे स्थापितवन्तौ। भण्डारपूर्तिमनुसृत्य द्विचक्रिकासञ्चारस्य स्वप्नयाथार्थ्यदिनाय प्रतीक्षमाणौ चास्ताम्। राज्यनाशकम् प्रलयानन्तरं नवकेरलनिर्माणाय राज्यवासिनःधनांशदानाय सर्वकारेण अपेक्षिताः इति सहोदराविमौ ज्ञातवन्तौ। तदा सङ्कोचं विना कोटुमण् एस् सी वी सर्वकारप्राथमिकविद्यालयस्य द्वितीयकक्ष्याच्छात्रः आञ्जनेयः प्रथमकक्ष्याच्छात्रः अनुः च भण्डारैस्सह विद्यालयम् प्राप्तवन्तौ, दुरिताश्वासनिधये दातुम् अध्यापकहस्ते दत्तवन्तौ च। द्वयोः सम्पाद्यम् आहत्‍य एकोत्तराष्टशतत्रिसहस्रं रूप्यकाणि। एतदपि संयोज्य आहत्य एतस्मात् विद्यालयात् पञ्चदशसहस्रं रूप्यकाणि दुरिताश्वासनिधये प्रायच्छत्।