OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 11, 2018

४० सर्वकारीयसेवाः अद्य आरभ्य गृहद्वारेषु। 
       नवदिल्ली > राजनगर्यां सर्वकारीयसेवायै-सर्वकारकार्यालयं परितः अटनं समाप्यते। विवाहस्य प्रमाणपत्रम् यानचालनानुज्ञापत्रम् शुद्धजललब्धिः इत्यादि सेवाः अद्य आरभ्य गृहद्वारं प्रापयन्ति। सोमवासरादारभ्य  सेवाः लभन्ते इति दिल्ली सर्वकारः ज्ञापयति। अस्मिन् वर्षस्य प्रारम्भादारभ्य सेवां दातुं निर्णीयः असीत्। किन्तु दिल्ली राज्यपालस्य अनुकूलप्रक्रमस्य कालविलम्बः योजनायाः विलम्बस्य कारणत्वेन दिल्लीसर्वकारः वदति।
      किन्तु भाग्यवशात् पञ्चाङ्गयुक्त-संविधानपीठिकयाः अनुकूलादेशः विषयेऽस्मिन् समभवत्। अनेन कारणेन एव इयं योजना प्रवर्तिपथमागता इति सर्वकारस्य वक्ता वदति। ईदृश्यः योजनायाः अयोजकत्वरूपेण समागतः सर्वकारः विश्वे प्रप्रथमतया भवति। अलीकवृत्तिः अनेन न्यूनीकर्तुं शक्यते, जनानां सुविधा अपि भवति इति दिल्लीराज्यस्य मुख्यमन्त्री अरविन्दकेजरिवालः ट्विट्टर् मध्ये अलिखत्।