OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 27, 2018

अणुनाशकोऽयं सूर्यप्रकाशः, तत्समय संप्रेषणम्।
-बिजिला किषोरः
      नवदिल्ली>  न्यायालयीय गौरवतरकार्यक्रमाणां तत्समयसंप्रेषणानुमतिः प्रदत्ता।  इमं विषयं विचिन्त्य तदीयक्रियाविधीन् संरच्य नियमनिर्माणाय  उच्चन्यायालयस्य पञ्जीकरणाधिकारी आदिष्टवान् अस्ति।  प्रमुखन्यायाधीशेन दीपक् मिश्रेण सह नियुज्यमानत्रयाङ्गपीठः आदेशः अगमयत्। 
      न्यायालयसंस्थायाः  सुतार्यतां प्रोत्साहनाय अणुनाशकः भवत्ययं सूर्यप्रकाशः इति तत्समयसंप्रेषणम् उद्‌दिश्य न्यायालयेन अभिमतः प्रकाशितः। न्यायालयप्रक्रमान् अधिकृत्य छात्रेभ्यः साधारणजनेभ्यश्च अध्ययनाय एतत् उपकारकं भवेत्  इति न्यायाधीशाः चिन्तयन्ति।