OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 17, 2018

प्रत्येकं विद्यालयेषु ओसोण् दिनं समाचरितम्

कोच्ची सेन्ट् मेरीस् यु पि विद्यालयः तेवरा- पथ सञ्चलनात् पूर्वं।
    कोच्ची > विद्यालयेषु भूमेः संरक्षणमुद्दिश्य ओसोण् दिनं समाचरितम्। ओसोण् नाम वायुपुटः आतपात्‌ छत्रमिव भूमिं पालयति। किन्तु इदानीं तादृशरक्षाकवचः नष्टप्रायः भवति। भूमेः रक्षणम् अस्मादृशानां रक्षणं भवति। सूर्यकिरणे विद्यमानानाम् अतिशक्तानां किरणानां दुष्प्रभावात् भूमेः रक्षणम् ओसोण् पुटेन क्रियते। अतः अन्तरीक्षमलिनीकरणेन ओसोण् पुटस्य नाशः मा कुरुत इति छात्रान् बोधियितुं दिनमिदम् आभारतम् आघुष्टम्।