OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 10, 2018

चौर्यलाभेन धनलवनं कुर्वताम् आतुरालयानाम् उपरि नियन्त्रणम् भविष्यति।
                                   - रम्या पी यू। 
    रोगिणां नीतिसंरक्षणं लक्षीक्रियमाणा नीतिपत्रिका यदा प्राबल्यमागच्छेत् तदा चौर्यलाभेन धनार्जनं कुर्वताम्  आतुरालयानामुपरि नियन्त्रणरज्जुः पतेत्। पत्रिकायाः सूक्ष्मरेखायाम् एकादशीं व्यवस्थामनुसृत्य औषधं स्वीकर्तुं रोगनिर्णयं कर्तुं च रोगिणा इच्छानुसारं स्थानं स्वीकर्तुं शक्यते। आतुरालयान् विहाय चौर्यलाभस्वीकर्तारः औषधशालाः परीक्षणशालाः च नियन्त्रयेदिति उद्देश्येन व्यवस्था योजिता।

        व्यवस्थामनुसृत्य वैद्याः  आतुरालयाधिकारिणः वा औषध, परीक्षणशालाः निर्देष्टुं औषधं चिकित्सां वा स्वीकर्तुं निर्बन्धं न कुर्युः। राष्ट्रियाङ्गीकारसमित्या अङ्गीकृतायां कस्मिन्नपि परीक्षणशालायां रोगी रोगनिर्णय, चिकित्साः कर्तुं शक्नोति। कार्यमेतत् रोगिणः बान्धवान् च ज्ञापयितुं दायित्वं वैद्यस्य तथा आतुरालयाधिकारिणां च। गतदिने एव केन्द्रारोग्यकार्यमन्त्रालयस्य कृते राष्ट्रियमनुष्याधिकारसमितिः रोगिणां नीतिपत्रिकायाः सूक्ष्मांशस्य प्रकाशनमकरोत्। आतुरालयेषु सूचीः हस्तावरणानि तः जीवनरक्षोपकरणानि पर्यन्तं उपकरणानां कृते अमितमूल्यं स्वीकुर्वन्तीति देशीयौषधमूल्यनिर्णय( एन् पी पी ए) समित्याः पठने निर्णीतम्। चिकित्सोपकरणानां विक्रयणेन कार्यशालाः विक्रेतारः आतुरालयाश्च 40 तः 600 प्रतिशतपर्यन्तं लाभं स्वीकुर्वन्ति। चिकित्सायाम् अतृप्तिश्चेत् अनुकूलमार्गमन्वेष्टुं च रोगी शक्नोति।