OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 29, 2018

इन्डोनेष्यायाम् अतितीव्रभूचलनं तेन सह सुनामी ३८५ जनाः हताः।
-बिजिला किषोरः
 
    जक्कार्त > इन्डोनेष्यायाः सुलवेसी द्वीपे प्रवृत्तस्यभूचलनस्य पृष्टतः सुनामी च। ए एफ् पि वार्ता संस्थया वार्ता प्रकाशिता।  भूकम्पमापिन्यां ७.७ भूचलनस्य शक्तिः अङ्किता। अतितीव्रभूचलनं भविष्यतीतिदुरन्तन्यूनीकरणसंस्थयापूर्वसूचना दत्ता आसीत्। भूचलने अनेकानि भवनानि भग्नान्यभवन्। मध्य-पश्चिम मण्डलेषु विद्यमानजनान्  सुरक्षितस्थानं प्रापयन्तुं प्रेरयन्तःअधिकृताः।   प्रथम चलनानन्तरं
पुनरपि प्रवृत्ते  चलने मापिन्यां ७.५ सूचितम्। ४०० संख्याकाः जनाः मृताः इति वार्ताः बहिरागच्छतिl  दशपादमानात् उन्नत्‍यां सागरतरङ्गाः उन्ननताः अभवन्। जनाः परिभ्रान्ताः सन् धावमानाः इति  बहिरागतानि दृश्यखण्डानि सूचयन्ति। उपपञ्चशतं जनाः व्रणिताः अभवन्।