OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 30, 2018

इन्डोनेष्यायां भूकम्पः सुनामी च - चतुश्शतं मरणानि। 
   जक्कार्ता  >  इन्डोनेष्यन् राष्ट्रस्य सुलवेसीनामके द्वीपे गतदिने संवृत्तस्य शक्तस्य भूकम्पस्य पश्चात् सञ्जाते सुनामीनामके समुद्रविक्षोभे महान् विनाशः। असंख्यानि भवनानि राक्षसीये तरङ्गाघाते विशीर्णानि। चतुश्शताधिकाः जनाः मृताः। 
       भूकम्पमापिन्यां ७.५तीव्रताम् अङ्किते भूचलने सप्तपादपरिमितोन्नतौ तरङ्गाः जाताः। मध्यसुलवेसीप्रविश्यायाः पालु , डोंगला  प्रदेशौ एव मुख्यतया दुष्प्रभावितौ जातौ। डोङ्गला नगरात् ५६ कि मी दूरे भौमोपरितलात् दशकिलोमीटर् परिमितायाम् अगाधतायामेव भूकम्पस्य प्रभवकेन्द्रमिति सूच्यते।