OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 17, 2018

जीवनकलया श्री अभयं पुनरुद्धारण पद्धत्याः कार्यान्वयनं केरलेषु करिष्यति।
-डा अभिलाष् जे

      तिरुवनन्तपुरम् > केरलराज्यस्य पुनरुद्धारणयोजनायै श्री श्री रविशङ्करस्य साहाय्यः। जीवनकला संस्थया श्री अभयं कर्मपद्धत्याः कार्यान्वयनं सेप्तंबर पञ्चदशे दिने आरप्स्यते इति जीवनकला राज्यस्तरीय निदेशकेन एस् एस् चन्द्रसाबु महोदयेन उक्तम्।
मलप्पुरं जिल्लायाः ऊर्ङाट्टिरि इटुक्कि जिल्लायाः कोषिलाक्कुडि पत्तनंतिट्ट जिल्लायाः अट्टत्तोड् इति वनवासक्षेत्रैः सह प्लयबाधितक्षेत्रेषु आलप्पुषजिल्लायां पाङ्डनाड् देशे च श्री अभयं पद्धत्याः प्रारंभप्रवर्तनं आरप्स्यते।
        केरले प्रलयदुरितबाधितेभ्यः जनेभ्यः श्री श्री रविशङ्कर महोदयेन सार्धनव कोटि रूप्यकाणाम् उत्पन्नानि दत्तानि आसन्।तस्मादुपरि विविधराज्येभ्यः विदेशेभ्यः च जीवनकला सन्नद्धसेवकैः चतुर्दश कोटि ररुप्यकाणां उत्पन्नानि प्राथमिकतया दत्तम्।स्वास्थ्यं शुचित्वं शिक्षा इत्यादि क्षेत्राणां समग्रविकासाय विभिन्नानां पद्धतीनां कार्यान्वयीकरणं भविष्यति।
       छात्रेभ्यः छात्रशुल्कं पुस्तकानि विद्यालय स्यूतानि इत्यादीनतिरिच्य शौचालयानि ग्रन्थालयेभ्यः ग्रन्थाः दूरदर्शनं  सङ्गणक यन्त्राणि इत्यादीनि दास्यन्ति। भ्राष्ट्राणि वस्त्राणि जलशुद्धीकरणयन्त्राणि सौरोर्ज दीपाः इत्यादि क्षेत्रस्य  समग्रविकसनं लक्ष्यीकृत्य  आयोजिता एक संवत्‍सरात्मक-कर्मपद्धतिः अस्ति श्री अभयमिति चन्द्रसाबुना उक्तम्।