OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 10, 2018

राजीवगान्धिहत्या - सप्तापराधिनः विमोचयितुं तमिल्नाटु सर्वकारः I 
   चेन्नै > भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे कारागारवासमनुभवतः सप्त अपराधिनः विमोचयितुं राज्यपालं बन्वारिलाल् पुरोहितं प्रति  तमिलनाडु सर्वकारेण उपदेशः कृतः। मुख्यमन्त्रिणः ए. पलनिस्वामिनः नेतृत्वे सम्पन्ने मन्त्रिसभामेलने एवायं निर्णयः! 
    अपराधिषु अन्यतमस्य 'पेररिवाल्' नामकस्य करुणायाचिका राज्यपालेन परिगणनार्हा इति सर्वोच्चन्यायालयस्य विधिमाधारीकृत्यैव अयं पदक्षेपः। पेररिवालस्य दयायाचिका परिगणनीया इत्यस्ति विधिरपि अन्ये षडपराधिन अपि दयायाचिकां समर्पितवन्तः इत्यतः एतेषां मोचनाय अपि उपदेशः कृतः आसीत्।