OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 20, 2018

मुसलमानविभागान् एवं सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वम्- इति मोहनभागवतः।
 - रम्या पी यू। 
        नवदिल्ली>  मुसलमानविभागान् तथा सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वमिति राष्ट्रियस्वयंसेवकसङ्घस्य अध्यक्षः मोहनभागवतः। माहम्मदीयानां स्थानराहित्यमिति अवस्था हिन्दुत्वं नास्ति इति सः अवदत्। राष्ट्रिय स्वयं सेवक सङ्घस्य त्रिदिनसञ्चालनस्य द्वितीयदिने भाषमाणः आसीत् सः। हिन्दुत्वमित्युक्ते भारतीयता एव। तच्च सर्वानपि अन्तर्भावयति। समग्रसमाजस्य एकीकरणमेव सङ्घलक्ष्यम्। वसुधैव कुटुम्बकम् सङ्घस्य दर्शनं च। राष्ट्रे जातासु घटनासु सङ्घस्य स्वकीयदर्शनानि वर्तन्ते। किन्तु सर्वकारस्य नयेषु प्रवर्तनेषु वा कदापि न व्यवहरामः। सर्वकारस्य प्रवर्तनानि रा स्व से सङ्घः स्वाधीनीकरोति इति आरोपणानि सः प्राक्षिपद्दूरम्। सङ्घस्य प्रारम्भादेव राजनैतिकात् बहिः तिष्ठामः। सङ्घः कदापि निर्वाचने स्पर्धते। उत निर्वाचनराजनैतिकस्य भागश्च न भवति। कस्यापि राजनैतिकदलस्य भारवाहकाः भवितुं सङ्घप्रवर्तकाः न शक्नुवन्ति सः योजितवान्।