OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 17, 2018

मन्त्रिवर्योहं! इन्धनमूल्यं न बाधते इति केन्द्रमन्त्री अत्तावाले। 
-बिजिला किशोर्
     जयपुरम् >यदा मन्त्रिस्थानं विनष्टं  भविष्यति तदा एव सामान्यजनसदृशं इन्धनमूल्यवर्धनं मामपि बाधतेति केन्द्रमन्त्री अत्तावाले। जयपुरे शनिवासरे प्रवृत्ते पत्रकारमेलने भाषमाणः आसीदयं महाशयः।
 मन्त्रिणः सर्वे स्वकीयमानुकूल्यं उपयुज्यन्तेत्यतः सामान्यजनाः मूल्यवर्धनस्य क्लेशमनुभवन्ति। मूल्यं न्यूनीकर्तुं सर्वकारैः श्रद्धा देया। राज्यस्तरे करं विना इन्धनं यच्छति तर्हि मूल्यवर्धनं नियन्त्रणाधीनं भवति। केन्द्रसर्वकारेण तदर्थं प्रयत्नं कुर्वन्ति इति अत्तावाले उक्तवन्तः।
       भा.जा.पा राजनैतिकदलस्य सख्यदलस्य  रिप्पब्लिक्कन् पार्टी इत्यस्य अध्यक्षः भवति रामदास अत्तावाले ।नीतिन्याय शक्तीकरणविभागस्य नेतृत्वे राज्यस्थाने विद्यमानपद्धतेः पुरोगतिं ज्ञातुमागतवानयं महाशयः।