OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 18, 2024

 जम्मु काश्मीरे ओमर् अब्दुल्ला प्रशासनं शपथमकरोत्। 

श्रीनगरं> सविशेषपदनिरासानन्तरं सम्पन्ने निर्वाचने विजयीभूतस्य नाषणल् कोण्फ्रन्स् दलस्य नेता ओमर् अब्दुल्ला जम्मु काश्मीरस्य मुख्यमन्त्रिरूपेण शपथवाचनं कृत्वा पदं प्राप्तवान्। लफ्टनन्ट् राज्यपालः मनोजसिंहः शपथमकारयत्। 

  पञ्चाङ्गमन्त्रिमण्डलमेव पदं प्राप्तवत्। जम्मुक्षेत्रात् चितः सुरीन्दर् चौधरी उपमुख्यमन्त्री भविष्यति। सर्वकाराय बहिःस्थित्वा सहयोगं दास्यतीति सख्यदलेन कोण्ग्रसेन निगदितम्।