OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 22, 2024

 बङ्गलुरूनगरं महत्या वृष्ट्या दुष्प्रवितम्: षट्तलयुतम् अट्टशूलगृहं पतित्वा त्रयः कर्मकराः मृताः।

   बङ्गलुरुनगरे महती वृष्टिः जातास्ति। हेनूरमण्डले निर्माणं प्रचलितं षट्तलयुतम् अट्टशूलगृहं  पतित्वा त्रयः कर्मकराः मृताः। अवशिष्टेषु द्वादश कर्मकराः अवरुद्धाः सन्ति इति सूच्यते। 12 जनाः भग्नभवनस्य अधः पतिताः सन्ति इति सूचना लब्धा अस्ति। ते सर्वे अपरराज्येभ्यः आगताः  एव।

   शान्तिनगरे शताधिकानि गृहाणि जलप्रवाहेण ग्रस्तानि अभवन्। सर्जापुरे ह्यः एव चत्वारिंशत् मिल्लिमीट्टर् मितं जलं वर्षितम्। वृष्टेः तीव्रतया नगरे यातायातम् बाधितम् अभवत्, निम्नप्रदेशेषु च षड्पादमितं यावत् जलं गृहेषु प्रविष्टम्।

    वृष्टेः कारणेन बङ्गलुरुनगरस्य विद्यालयेषु अङ्गणवाटिकासु च श्वः बुधवासरे अनध्यायता उद्घोषितः आसीत्।