OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 27, 2024

 उत्तराखण्डे 'मद्रसा'सु संस्कृताध्ययनम् आरभ्यते। 

दरादूण्> उत्तराखण्डस्य चतुश्शताधिकम् इस्लामधर्मप्रबोधनकेन्द्रेषु मद्रसा नामकेषु संस्कृताध्ययनम् ऐच्छिकविषयत्वेन आनेतुं चिन्त्यते इति मद्रसासंस्थानामध्यक्षः मुफ्ति षामूण् खास्मि इत्यनेन निगदितम्। राज्यसर्वकारात् यदा अनुज्ञा लभ्यते तदा तदर्थं प्रक्रमाः आरप्स्यन्ते इति सः सूचितवान्। धर्मपाठशालायां पठन्तः छात्राः मुख्यधाराध्ययनेन घटनीयाः इति मुख्यमन्त्रिणः  पुष्करसिंह धामिनः इच्छानुसारमिति सः उक्तवान्। 

     उत्तराखण्डे मद्रसासु अस्मिन् वर्षे एन् सि ई आर् टि पाठ्ययोजना विधत्ता। संस्कृताध्ययनम् उत्तराखण्डस्य वखफ् बोर्ड् संस्था अपि स्वागतं चकार।