OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 26, 2024

 इस्रयेलस्य आक्रमणम् - खान् यूनिसे ३६ जनाः मृताः।

गासानगरं> अन्ताराष्ट्रियस्तरे  युद्धविरामाय सम्मर्दे प्रबले गासायां बृहत्तमे नगरे खान् यूनिसे शुक्रवासरे इस्रयेलेन कृते आक्रमणे १४ बालकान् अभिव्याप्य ३६ जनाः मृत्युमुपगताः। 

  दक्षिणलबने विधत्ते अन्यस्मिन्नाक्रमणे त्रयः वार्ताहरप्रवर्तकाः अपि मृताः। एकसंवत्सरं यावत् ११ माध्यमप्रवर्तकानां प्राणाः विनष्टाः।