OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 14, 2024

 भारत-बङ्गलादेशयोः टि - २०  क्रिकट् - स्पर्धात्रये अपि भारतस्य विजयः। 

सञ्जु सांसणस्य शतकम्। अन्तिमे प्रतिद्वन्द्वे १३३ धावनाङ्कानां विजयः। 

हैदराबादः> बङ्गलादेशेन सह भारतस्य टि २०  क्रिकट्परम्परायाः तृतीयप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। २९८ विजयलक्ष्येन कन्दुकताडनमारब्धं बङ्गलादेशदलं १३३धावनाङ्कैः पराजित्य एव भारतं विजयकिरीटमधरत्। 

  भारतस्य कन्दुकताडनवेलायां केरलीयेन सञ्जु सांसणेन शतकं प्राप्तम्। ४४ कन्दुकैः १११ धावनाङ्काः तेन सम्पादिताः।