OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 12, 2024

 गासायां विद्यालये इस्रयेलस्य आक्रमणं - २८ मरणानि। 

जरुसलेमः> गासायाम् अभयार्थिकेन्द्ररूपेण प्रवर्तमाने विद्यालये इस्रयेलेन कृते आक्रमणे २८ जनाः मृताः। ५४ जनाः व्रणिताः अभवन्। हमासस्य निर्देशककेन्द्रमेव विद्यालये प्रवर्तितमिति इस्रयेलसेनया निगदितम्। 

  गासायाम् अभयार्थिशिबिररूपेण प्रवर्तमानान् विद्यालयान् लक्ष्यीकृत्य इस्रयेलेन कृतेषु आक्रमणेषु नूतनतममासीत् ह्यस्तनमाक्रमणम्। अद्यावधि गासायां मृतानां संख्या ४२,०६५ अभवत्।