OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 7, 2024

 गासायाम् आराधनालयं प्रति इस्रयेलस्य आक्रमणम्। 

२६ जनाः हताः। 

गासानगरं> गासां प्रति इस्रयेलस्य आक्रमणं शक्तं कृतम्। मध्यगासायां अभयार्थिनः अभयस्थानरूपेण वर्तमानम् आराधनालयं प्रति रविवासरे इस्रयेलेन कृते आक्रमणे २६ जनाः मृत्युमुपगताः। डेयर् अल् बला इत्यस्मिन् स्थाने अल् अख्सा नामकमाराधनालयं प्रति आसीदाक्रमणम्। 

  आराधनालयस्थं हमासस्य नियन्त्रणस्थानं लक्ष्यीकृत्य परिमितमाक्रमणमेव कृतमिति इस्रयेलेन निगदितम्। अनेन सह उत्तरगासास्थं जबलियां लक्ष्यीकृत्य पुनः स्थल-व्योमाक्रमणमारभ्यते इति च इस्रयेलसेनया प्रख्यापितम्।