OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, October 22, 2024

 नवम्बर 1 तः 19 पर्यन्तं न गच्छ; एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयनेतुः सुग्रीवाज्ञा।

    एयर् इण्डिया विमानसेवां विरुद्ध्य खालिस्तानीयस्य नेतुः गुरुपन्तसिंहपन्नोः सुग्रीवाज्ञा। सिखजनविरुद्ध-कलहस्य वार्षिकस्मरणेण सम्बन्धतया नवम्बरमासस्य 1 दिनाङ्कतः 19 पर्यन्तं यदि एयर् इण्डिया विमानसेवा प्रचालयेत सति आक्रमणम् अवश्यं  भविष्यति इति सः ज्ञापितवान्। गतवर्षे अपि पन्नुः समानभीषां कृतवान् इति वार्ताः सूचयन्ति।

    2020 तमात् जुलाईमासात् आरभ्य गृहकार्य मन्त्रालयेन पन्नुः एकः आतङ्कवादीरूपेण प्रख्यापितः अस्ति, एषः Sikhs for Justice नामकस्य प्रतिबन्धितसंघटनस्य स्थापकः च अस्ति।