OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, October 16, 2024

 मणिपुरे अक्रममार्गं परित्यक्तुं संयुक्ताभ्यर्थना। 

नवदिल्ली> मणिप्पुरे वंशीयविद्वेषजनिताक्रमपरम्परामारभ्य प्रथमतया आयोजिते कुक्की, मेय्ती, नागा विभागानां विधानसभासदस्यानाम् उपवेशनं संवृत्तम्। केन्द्रसर्वकारान्तर्गतस्य गृहमन्त्रालयस्य आभिमुख्ये आयोजिते मेलने अक्रममार्गात् सर्वे विभागाः अपसरणीयाः इति अभ्यर्थितुम् ऐककण्ठ्येन निश्चितम्। 

  उपवेशनेSस्मिन् कुक्की मेय्ती विभागेभ्य‌ः २० सदस्याः नागाविभागात् त्रयः सदस्याश्च भागं स्वीकृतवन्त इति गृहमन्त्रालयेन निगदितम्।