OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 14, 2024

 लबनने अधिकनिष्कासनाय उद्दिश्य इस्रयेलः। 

बय्रूट्>  इस्रयेलस्य लबननं विरुध्य आक्रमणं तीव्रं कर्तुं लबननस्य दक्षिणभागे वर्तमानेषु २० ग्रामेषु वसतः जनान् ततः निष्कासितुम् इस्रयेलसेनया आदेशः विज्ञापितः। सुरक्षामालक्ष्य अवालिनद्याः उत्तरभागं प्रति अपसर्तुमेवादेशः। 

  रविवासरे दक्षिणलबनने कृते आक्रमणे कफर् तिब्निट् नामके ग्रामे वर्तमानः शतवर्षपुरातनः आराधनालयः निश्शेषेण भञ्जितः। नबातिये नामापणमपि सम्पूर्णतया विशीर्णम्। ह्यस्तनाक्रमणे १५ जनाः हताः, ३६ जनाः व्रणिताश्च।