OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 26, 2024

 पूर्वलडाके भारत-चीनसैना अपनीयते। 

नवदिल्ली> पूर्वलडाकस्य डें चोक्, देप् साङ् इत्येतयोः ,समतलप्रदेशयोः संघर्षक्षेत्रेभ्यः भारतं चीनश्च स्वस्व सेनाविभागान् अपनीतुम् आरभेताम्। पूर्वलडाकस्य नियन्त्रणरेखातः सेनां निराकर्तुं राष्ट्रयोरुभयोः सन्धिप्रकारेणैवायं प्रक्रमः।

  २०२० एप्रिल्मासात् पूर्वं एषु मण्डलेषु या अवस्था परिपालिता तामवस्थां प्रत्यानेतुं राष्ट्रद्वयानापि निश्चितमस्ति। सैनिकप्रक्रमस्य पुरोगतिं निर्णेतुं सैनिककमान्डर् स्तरे मेलनमपि भविष्यतीति उन्नताधिकारिभिः निगदितम्।