OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 26, 2024

 नासायाः 'षाडोस्' अभियानं भारते कोच्चीनगरे। 


कोच्ची> अमेरिकायाः बहिराकाशगवेषणसंस्थायाः नासायाः 'षाडोस्' नामकं ओसोणस्तरस्य निरीक्षण-गवेषणाभियानं केरलस्य कोच्चिनगरे अपि संस्थापयितुं नीर्णयः कृतः। कोच्चि विश्वविद्यालयस्य अन्तरिक्षशास्त्रपठनविभागेन सहकृत्वा एव केन्द्रस्य प्रवर्तनम्। 

  इदानीं १४ राष्ट्रेषु इदमभियानं प्रवर्तमानमस्ति।  ओसोण् स्तरस्य संरक्षणप्रक्रमान् साक्षात्कर्तुं उष्णमण्डलराष्ट्रेषु इदमभियानं प्रवर्तते। मलेष्या, इन्डोनेष्या, दक्षिणाफ्रिका, वियट्नामः, ब्रसीलः इत्यादिषु १४ राष्ट्रेषु अभियानस्यास्य प्रवर्तनं प्रचलति।