OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, October 10, 2024

 रतन् टाटा दिवंगतः।


  मुम्बई> नवभारतशिल्पिषु अन्यतमः उद्योगप्रमुखश्च रतन् टाटावर्यः [८६] दिवंगतः। व्यावसायिकभारतनिर्माणेन सह स्वजीवने मानविकमूल्यानाम् आदर्शपूर्णं समर्पणं च कृतवतः तस्य अन्त्यं ह्यः रात्रौ ११. ४५ वादने मुम्बय्यां ब्रीच् कान्डि आतुरालये आसीत्। 

   अनुस्यूततया २१ वर्षाणि टाटा ग्रूप् नामक व्यावसायिक संस्थायाः अध्यक्षः आसीत्। भारतीयानां कृते टाटा इन्डिका नामकं कार् यानं, सामान्यजनानां कृते 'नानो' इति न्यूनातिन्यूनतममूल्ययुक्तं कार् यानम् इत्यादीनि तस्य सामाजिकप्रतिबद्धतायाः निदर्शनत्वेन विलसन्ति। 

  रतन् टाटावर्यस्य निर्याणे प्रधानमन्त्री नरेन्द्रमोदी, लोकसभायाः विपक्षनेता राहुलगान्धी इत्यादयः प्रमुखाः अनुशोचितवन्तः।