OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, October 6, 2024

 कैरल्याः वार्तावतारकः एम् रामचन्द्रः दिवंगतः। 


अनन्तपुरी> कैरलीवार्ताप्रवाचने कण्ठस्वरेण नवचरितं रचितवान् आकाशवाण्याः भूतपूर्वः वार्ताप्रवाचकः रामचन्द्रः दिवंगतः। ९१ वयस्कः आसीत्। आकाशवाणीवार्तावतरणे 'कौतुकवार्ताः' इत्यस्मिन् प्रकरणे अपि तस्य शब्दभाववैचित्र्येण सः लक्षशः आकाशवाणीश्रोतृजनान् हठादाकर्षति स्म। 

  १९६५ तमे वर्षे दिल्ल्याम्  आकाशवाणीसेवाम् आरब्धवान् रामचन्द्रः १९७० तमे कोष़िक्कोट् निलये प्रथमः  वार्तावतारकः अभवत्। भारत-पाकिस्थानयुद्धं, प्रधानमन्त्रिणः इन्दिरागान्धिनः मृत्युः, केरलीयस्य के आर् नारायणस्य राष्ट्रपतिपदप्राप्तिः इत्याद्याः चरित्रवार्ताः तस्य शब्देनैव केरलीयाः ज्ञातवन्तः। १९९५ तमे वर्षे सेवानिवृत्तोSभवत्। 

  एम् रामचन्द्रस्य भौतिकशरीरं अद्य प्रभाते १०. ३० वादने अनन्तपुर्यां प्रस् क्लब् भवने समान्यजनानां कृते अन्तिमोपचारसमर्पणाय संस्थाप्यते। अनन्तरं तैक्काटस्थे शान्तिकवाटे संस्कारक्रियाः विधास्यन्ति।