OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 11, 2024

 रत्तन् टाटा वर्याय सहस्राणाम् अन्त्याञ्जलयः। 


सम्पूर्णबहुमत्या अन्त्येष्टिः सम्पन्ना। 

मुम्बई>  गतदिने कालयवनिकां प्राप्ताय व्यावसायिकप्रमुखाय रत्तन् टाटावर्याय जीवनस्य विविधस्तरीयाः सहस्रशः जनाः अन्त्याञ्जलयः समर्पितवन्तः। नरिमान् पोयन्ट् इत्यत्र स्थिते  एन् सि पि ए अङ्कणे टाटावर्यस्य  राष्ट्रपताकावृतं भौतिकशरीरं  राष्ट्रस्य समादरं स्वीकृतवत्। 

  क्रिकट् इतिहासः सचिन् टेण्टुल्करः टाटावर्यस्य भवनं प्राप्य अन्याञ्जलिं समर्पयामास। आदित्य बिर्ला, मुकेश् अम्बानी इत्यादयः व्यवसायप्रमुखाः स्वपरिवारैः सह अन्त्योपचारं समर्पयामासुः। केन्द्रमन्त्री अमित शाहः, महाराष्ट्रस्य मुख्यमन्त्री एकनाथ षिन्दे, गुजरातस्य मुख्यमन्त्री भूपेन्द्र पटेलः इत्यादयः राजनैतिक - प्रशासननेतारश्च  अन्त्याञ्जलिं समर्पितवन्तः।