OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, October 18, 2024

 हमासनेता यह्या सिन्वरः हतः। 

यह्या सिन्वरः। 

जरुसलेमः> हमास् सायुधसेनायाः नेता यह्या सिन्वरः गतदिने सम्पन्ने सैनिकप्रक्रमे हतः इति इस्रयेलस्य विदेशकार्यमन्त्री इस्रयेल् कैट्स्  इत्यनेन निगदितम्। २०२३ ओक्टोबर् सप्तमे दिनाङ्के इस्रयेलं प्रति हमासेन कृतस्य आक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः आसीत् सिन्वरः इति सूच्यते।

  हमासस्य उन्मूलनाशः इति इस्रयेलस्य लक्ष्ये अतिप्रधानमासीत् हत्येयम्। दक्षिणगासायां राफा इत्यत्र कृते आक्रमणे सिन्वरस्य मरणमिति सूच्यते। डि एन् ए परिशोधनया एव निहतेषु त्रयेषु एकः यह्या सिन्वरः इति इस्रयेलेन दृढीकृतम्।