OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, October 28, 2024

भयं त्यज कल्पितबन्धनं भारते नास्ति - नरेन्द्रमोदी।

 अन्तर्जालिकं कापट्यम् व्यापकमस्ति। दूरवाण्याह्वानम् आगमिष्यति चेत् भयं मास्तु  इति प्रधानमन्त्त्रिणा नरेन्द्रमोदिना उद्बोधितः।

वार्ताहरा -रमा टी के

   अन्तर्जालिकः आङ्किकनिग्रहः व्याप्यमाने सन्दर्भेऽस्मिन् दूरवाण्याह्वानम् आगमिष्यते चेत् भयं त्यज इति प्रधानमन्त्रिणा उद्बोधितः। प्रतिपालयस्व, चिन्तय, प्रक्रमाः स्वीकरणीयाः इति तत्वम् अनुवर्तस्व इति प्रधानमन्त्रिणा नरेन्द्रमोदिना नागरिकाः उदबोधिताः।

  आङ्किकबन्धनं कुर्वतां साङ्कणिकापराधिनम् अधिकृत्य मोदिना पूर्वसूचना प्रदत्ता। प्रतिदिनं विवर्धमानाम् एतां समस्यां परिहर्तुम् नैकाः संस्थाः प्रवर्तन्ते इत्यपि महोदयेन निगदितम्।  आकाशवाण्याः 'मन की बात' नाम प्रतिमास-कार्यक्रमस्य ११५ तमे उपाख्याने एव कल्पित-बन्धनम् (virtual arrest) भारतीय-न्याय संहितायां  नास्ति इति मोदना उदीरिम्।