OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, October 12, 2024

 रत्तन् टाटावर्यस्य अनुगामी नोयल् नवल् टाटा वर्यः।

नोयल् नवल् टाटा।

मुम्बई> टाटा व्यवसायसाम्राज्यस्य अध्यक्षरूपेण दिवंगतस्य रत्तन् टाटावर्यस्य अर्धसोदरः नोयल् नवल् टाटा वर्यः ऐककण्ठ्येन चितः। Sir Rattan Tata trust, Sir Dorabji Tata trust इत्याद्यानां १३ ट्रस्ट् संस्थानां संयोजितरूपं 'टाटा ट्रस्ट्' इत्यस्य अध्यक्षपदमेव नोयल् नवल् टाटा वक्ष्यति।

  ट्रस्टि अङ्गानां स्वस्मिन् विश्वासः परिरक्षिष्यते इति नोयल् वर्येण सूचितम्। टाटापरिवारस्य पारम्पर्यमनुवर्तिष्यते। राष्ट्रनिर्मितेः जीवकारुण्यप्रवर्तनानां व्यवसायविकासस्य च कृते वयं समर्पितचेताः भविष्यामः इति च तेनोक्तम्।